________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७मै अध्यायः ।
कल्पस्थानम् । काकोली क्षीरकाकोली क्षुद्रां छिन्नरुहां तथा। क्षीरशुक्लां पयस्याश्च यष्टाह्वां विधिना पिबेत् । वातपित्तहितान्येतान्यन्यानि च कफानिले ॥ क्षीरमांसेक्षुकाश्मर्य-द्राक्षापीलुरसैः पृथक् । सर्पिषा वा तयोश्चूर्णमभया शिकं पिबेत् ॥ लिह्याद वा क्षौद्रसर्पिभ्यां संयुक्तं ससितोपलम् । अजगन्धातुगाक्षीरी-विदारीशर्करात्रिवृत् ॥ चूर्णितं क्षौद्रसर्पिभ्यां लोढा साधु विरिच्यते । सन्निपातज्वरस्तम्भ-दाहतृष्णादितो नरः ॥६-११॥
मुण्डीरी । महती श्रावणी श्वेतमुण्डेरी। क्षीरशुक्ला क्षीरविदारी, पयस्या तदितरविदारी, भूमिकुष्माण्डद्वमिति यावत् । इति जीवकादौ यष्टीमधुकवज चतुर्दश। यष्टयाहां त्रिच्चूर्णसमां विधिना पिबेदिति यष्टया द्वितीययोगः। इति षोड़श। अथ क्षोरादौ सप्त योगानाह-अन्यानि च कफानिले इति । क्षीरेत्यादि। तयोः इमामारुणमूलयोश्चूर्ण अद्धांशहरीतकीचूर्णयुक्तं क्षीरमांसादिरसैः षभिः प्रत्येकैः सह पिबेत् । तथा सर्पिषा सह अभयाडींशयुक्तं तयोश्चूर्ण पिबेदिति क्षीरादौ सप्त। अथ लेहेऽष्टावाह। लिह्यादित्यादि। तयोः श्यामारुणयोस्त्रिटन्मूलयोश्चूर्ण समशर्करं क्षौद्रसपिभ्यों लिबादित्येकः । अजगन्धेत्यादि। अजगन्धा यमानीमूलम् मूलिनीषूक्तवान् । तुगाक्षीरी वंशलोचना, विदारी भूमिकुष्माण्डे, सन्च समानांशं मिश्रयिता क्षौद्रसपिा लेह इति द्वितीयः ॥९-११॥
यष्यामित्येकाचाह। भयञ्च संग्रहोक्कयोः यष्टया द्वौ इति द्वयोरन्यतरः। भुधा कोकिलाक्षः । क्षीरशुक्ला क्षीरविदारी। पयस्याऽर्कपुष्पी। भोरेत्यादिना क्षीरादौ सप्त योगामाह। पीलु भौत्तरपथिकं फलम् ॥ ८-१० ॥ चक्रपाणिः-लिह्याद वा मध्वित्यादिना अष्टौ लेहानाह। लिह्याद् वेत्यादिना प्रथमो लेहः ।
४४७
For Private and Personal Use Only