________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः। अथातः कृतवेधनकल्पं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ अथ नामानि वक्ष्यामि कल्पञ्च कृतवेधने। खेड़ः कोषातकी जाली मृदङ्गफलमेव च ।। अत्यर्थ कटुतीक्ष्णोष्णं गाढ़ेष्विष्टं गदेषु च । कुष्ठपाण्डामयप्लोह-शोफगुल्मगरादिषु ॥ २ ॥ क्षीरादि कुसुमादोनां सुरा चैतेषु पूर्ववत् । सुशुष्काणान्तु वोजानामेकं द्वौ वा यथाबलम् । कषायैर्मधुकादीनां नवभिः फलवत् पिबेत् ॥३॥ गङ्गाधरः-अथोद्देशानुक्रमात् कृतेवेधनकल्पमाह-अथात इत्यादि। षड्विरेचन शताश्रितीये यदुद्दिष्टम् कृतवेधनं षष्टिधा भाति योगयुक्तमिति, तस्य कल्पं व्याख्यास्यामः। शेषं पूर्ववत् ॥१॥
गङ्गाधरः-अथ नामानीत्यादि। क्षेड़ इत्यादिना नामानि। लटापुटकीति लोके। तस्य गुणमाह-अत्यर्थमित्यादि। अत्यर्थ कटुकं तिक्तम् ॥२॥
गङ्गाधरः-तस्य योगानाह-क्षीरादीत्यादि। कृतवेधनस्य कुसुमादीनां कुसुमफलप्रबालानां क्षीरादिपूर्ववच्चत्वारः। तद यथा-कृतवेधनस्य पुष्पेण क्षीरं पक्त्वा पिबेदथवा फलेन क्षीरं पत्त्या पिवेदथवाग्रपल्लवेन क्षीरं पत्त्वा पिबेदथवा कृतवेधनफले क्षीरं पत्त्या घनीकृतं क्षीरसन्तानं पिवेदिति क्षीरे चखारो योगाः। सुरासवे चकः। मुरामण्डे कृतवेधनस्य फलकल्कं प्रक्षिप्य भाजने स्थापयेद यावदासुतं स्यात्, ततो विमृद्य पाययेदित्येक इति पञ्च योगा। भुशुष्काणामित्यादि। कृतवेधनवीजमेकं द्वे वा शुष्कीकृत्य चूर्णयित्रा
चक्रपाणिः-वमनकल्पपारिशेष्यात् कृतवेधनकल्पोऽभिधीयते। गाढ़े बिति अत्ययंगादेष कुष्ठादिषु। क्षीरादीत्यादिना श्रीरयोगा उध्यन्ते। क्षीरयोगचतुष्टयं मदिरायोगक्ष जीमूतक. कल्पविधानातिदेशेनाह। क्षीरादिशब्देन श्रीरकृतपेयाक्षीरसन्तानिकादध्युत्तरागां ग्रहणम् । एते च संग्रहेऽक्षीररूपा अपि क्षीरविकारतया क्षीरशब्देनैव गृहीताः क्षीरे द्वौ द्वौ इति वचनेन । कुसुमादीनामिति कृतवेधनस्य, पुष्पादीनां “पयः पुष्पेऽस्य निर्वृत्त फले पेया पयस्कृताः। लोमशे क्षीरसन्तानं वध्युत्तरमलोमशे" इति जीमूतकविधानोक्तानाम् । सुरा चैतेषु पूर्ववदिति यथा जोमूतकाल्पविधानेन भीरादयः कर्तव्याः, तथा श्रीरादयः सुरा च कर्सम्याः। सुशुष्काणाम्
For Private and Personal Use Only