________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
कल्पस्थानम्।
३५१३ पुष्पादिषु च चत्वारः क्षीरे जीमूतके यथा। योगा हरितपाण्डूनां सुरामण्डेन पञ्चमः॥५॥ फलखरसभागश्च त्रिगुणक्षीरसाधितम् । उर स्थिते कफे दद्यात् स्वरभेदे सपीनसे ॥६॥ जीणे सद्योधृते क्षीरे प्रक्षिपेत् तु तथा दधि * । जातं स्यात् कफजे कासे श्वासे छर्दाश्च शस्यते ॥७॥ मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषादितः।
तेन तक्र विपक्वं वा सक्षौद्रलबणं पिबेत् ॥८॥ .. गङ्गाधर:-पुष्पादिष्वित्यादि। जीमूतके यथा पुष्पादिषु चखारो योगास्तक्ष्वाकामपि। क्षीरे इक्ष्वाकुपुष्पं पक्त्या पैयमित्येकः । तथा क्षीरेशृतमिक्ष्वाकुफलं पेयमिति द्वितीयः। इक्ष्वाकुफले क्षीरं पक्त्वा क्षीरसन्तानं क्षीरसेति ख्यातं पीलोत्तरं दधि पेयमिति तृतीयः । इक्ष्वाकुफले शृते क्षीरे जातमम्लं दधि चतुर्थः । इति हरितपाण्डूनां वमनाथ चखारो योगा इति । इक्ष्वाकुफलं सुरामण्डे आमुल्य प्रक्षिप्य स्थापयिखा काले पक्वं जातरसमासवं कृता मृदिखा प्रमृतं पिवेद कफजारुच्यादिष्विति पञ्चमो जीमूतवत् । इति षट् सह पूर्वेण ॥५॥ .
गङ्गाधरः-फलेत्यादि। इक्षाकुफलस्य स्वरसस्य एकभागं त्रिगुणक्षीरे साधितं वमनाथं दद्यात् ॥६॥ .. गङ्गाधरः-जीर्ण इत्यादि। गोराहारे जीण प्रातःकाले सद्योधृते तत्क्षणं धृते क्षीरे धारोष्णे त्रिगुणे इक्षाकुफलस्वरसभागमेकं प्रक्षिपेत् तथा जातं वधि स्यात्। कफजकासादो दद्यात् इत्यष्टमः॥७॥ .... पहाधरः-मस्तुनेत्यादि । इक्ष्वाकुफलात् तन्मध्यस्थं शस्यं दधिमस्तुना पक्वं
चक्रपाणिः-पुष्पादिष्वित्यादिना चतुरः क्षीरयोगानाह। जीमूतके यथा “पयः पुष्पेऽस्य नियंत फले पेया पयस्कृता। रोमशे भोरसन्तानं दध्युत्तरमरोमशे” इत्यनेनोक्तम्, तथेहापि सोमवतुष्टयं करणीयम् । हरितेत्यादिना सुरायोगमाह । हरितपाडूनामिक्ष्वाकुफलानां सुरामण्ड जीमूलकवद योगः कर्तव्यः । जीमूतकविधानातिदेशेन "आसुत्य वा सुरामण्डे मृदित्वा प्रसृतं पिबेत" इति मन्योतविधानमिहापि भवति। फलस्वरसेत्यादिना षष्ठः क्षीरयोगोऽभिधीयते। त्रिगुणक्षीरसाभितमिति विगुणेन क्षीरेण साधितम्, तच्च चतुर्गुणेन तोयेन साधनीयम्। फलशब्देन इक्ष्वाकुफलमुच्यते। जीर्ण इत्यादिना सप्तमः क्षीरयोगः। मध्योवृते इत्युक्तमध्ये ।
* जीर्ण मध्योद्धृते धीरं प्रक्षिपेत् तद यदा दृधि। इति चक्रसम्मतः पाठः।
-
-
For Private and Personal Use Only