________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[इक्ष्वाकुकल्पः
३५४४
चरक-संहिता। अजाक्षीरेण वीजानि भावयेत् पाययेत च। विषगुल्मोदरग्रन्थि-गण्डेषु श्लोपदेषु च ॥ ६ ॥ तुम्बाः फलरसैः शुष्कैः सपुष्पैरवचूर्णितम् । छईयेन्माल्यमाघ्राय गन्धं सम्यक् छ सुखोचितः॥१०॥ भक्षयेत् फलमध्यं वा गुड़ेन पललेन वा।
इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ववद् घृतम् ॥११॥ पिबेत् । अथवा तेनेक्ष्वाकुफलमध्येन शस्येन पक्वं तक्रं सक्षौद्रलवणं पिबेदिति द्वाविति दश। इति सुरामस्वादिषु त्रयः॥८॥ . गङ्गाधरः-अजेत्यादि। इक्ष्वाकुत्रीजान्यजादुग्धेन चूर्णयिला भावयेत्, भावितानि तानि तेनाजाक्षीरेणव पाययेत च विषादिषु । इत्येक इत्येकादश । इति पयस्यष्टौ ॥९॥
गङ्गाधरः-तुम्ब्या इत्यादि। इक्ष्वाकाः सह पुष्पः फलस्वरसं शुष्कीकृत्य तैश्चूणैरवचर्णितं माल्यं पुष्पमाल्यं गन्धमाघ्राय सुखोचितो जनश्छईयेत् । इत्येको प्रेययोगः ॥१०॥
गङ्गाधरः-भक्षयेदित्यादि। इक्ष्वाकुफलमध्यं गुड़ेन भक्षयेत्। पललेन वा तविक्ष्वाकुफलमध्यं भक्षयेत्, मांसेन पत्तवेत्यर्थः। इक्ष्वाकुफलवीजानां तैलं पिबेत् । एवं पूर्ववत् जीमूतघृतवत् घृतं सिद्धं पिबेत् । तद्यथा। इक्ष्वाकुफलैः पक्वं क्षीरं मथिता यदुद्धतं नवनीतं तदघृतं फलादीनां मदनफलमधुक कोविदारादीनां कषायेण चतुगुणेन पिबेत् । तद वमनार्थ श्रेष्ठमिति । गुड़पललतैलघृतयोगाश्चखार इति षोड़श ॥११॥ मजाक्षीरेणेत्यादिनाऽष्टमः क्षीरयोगः। तेन तक्रमित्यादिना तक्रयोगः। तेनेति तुम्बीफलमध्येन ॥५-८॥
चक्रपाणिः-तुम्च्या इत्यादिना प्रेययोगमाह। गन्धसम्पत्सुखोचित इति गन्धसम्पत् सौगन्धवत्वम्, तया गन्धसम्पदा सुखमुचितमभ्यस्तं येन सः। अवचूर्णितमिक्ष्वाकुफलरस. भावितं माल्याघ्रायैवं वमत्यनभ्यस्तदुर्गन्ध इति भावः। भक्षयेदित्यादिना वमनयोगमेकमाह । फलमध्यमिक्ष्वाकुफलमध्यम्। इक्ष्वाकुफलकक साधितं तैलमिक्ष्वाकुफल तैलम्, अयमेक एवं तैलयोगः। पूर्ववदिति जीमूतकवत, सेन "तथा जीमूतकक्षीरात्" इत्यादिनोक्तविधानेन जीमूतकस्थाने इक्ष्वाकुफलं दत्वेह घृतं साधनीयम् ॥९-११॥
• सम्यक सुखोचित इत्यक्ष गन्धसम्पत्सुखोचित इति चक्रवतः पाठः ।
For Private and Personal Use Only