________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः । अथात इक्ष्वाकुकल्पं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥ सिद्धं वक्ष्याम्यथेाकु-कल्पं येषाञ्च शस्यते । पञ्चचत्वारिंशदुक्ता योगा अस्मिन् महर्षिणा ॥ २ ॥ लम्बाऽथ कटुकालावूस्तुम्बी पिण्डफला तथा । इचाकुः फलिनी चैव प्रोच्यतेऽस्यास्तु कल्पना ॥ कासश्वासक फच्छद्दि -तृर्त्तिकफकर्षिते । प्रताम्यति नरे चैव वमनार्थन्तु सेष्यते ॥ ३ ॥ अपुष्पायाः प्रबालानां मुष्टिं प्रादेशसम्मितम् । चीरप्रस्थे श्रुतं देयं पित्तोद्रिके कफज्वरे ॥ ४ ॥ गङ्गाधरः – उद्देशानुक्रमादिक्षा कुकल्पमाह - अथात इत्यादि । पूर्व्ववत् सम्बं व्याख्येयम् ॥ १॥
गङ्गाधरः - सिद्धमित्यादि । लम्बा कटुकालावस्तुम्बी पिण्डफला फलिनी 'पेक्षा कुश्चेति पय्यायेरिक्षाकुः प्रोच्यतेऽस्याः कल्पना च पञ्चचत्वारिंशदिक्षाकुविति यदुक्तं सा प्रोच्यते । कासादिकर्षिते प्रताम्यति नरे च वमनार्थ सेवारिष्यते ।। २ । ३ ।।
गङ्गाधरः- अपुष्पाया इत्यादि । अपुष्पाया इक्षाकाः प्रबाला नवीना अग्रभागा ये तेषां प्रादेशसम्मितं वितस्तिमात्रं तदग्रभागं मुष्टिं पलप्रमाणं क्षीरप्रस्थे मृतं देयमिति । शेषमाशीरित्येको योगः ॥ ४ ॥
चक्रपाणिः — उक्ताध्यायसम्बन्धादिक्ष्वाकुकल्पोऽभिधीयते । तेषाञ्च शस्यते इक्ष्वाकुकल्पः, बाम् वक्ष्यामीति योज्यम् । लम्बेत्यादि पर्य्यायकथनम् । तदिष्यते इति इक्ष्वाकु कल्पनमिष्यते ॥ १-३ ॥
चक्रपाणिः- अपुष्पस्येत्यादिना एकः क्षीरयोगः । अपुष्पस्येति भनुत्पन्नपुष्पस्य । मुष्टि प्रादेशसम्मितमिति प्रदेशिन्या मूलपर्यन्तकृत मुष्टिपरिमाणम् एवञ्च नाल मुष्टिः पलवचनः । क्षीरप्रस्थे यथोकमान मिक्ष्वाकुमवाप्य चतुर्गुणपानीयं दच्वा क्षीरं साधनीयम् ॥ ४ ॥
For Private and Personal Use Only