________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः]
कल्पस्थानम्।
३५४१ तथा जोमूतकक्षीरात् समुत्पन्नं पचेद् घृतम् । फलादोनां कषायेण श्रेष्ठन्तु वमनं स्मृतम् ॥ ६ ॥
तत्र श्लोको। षट् क्षीरे मदिरामण्डे एको द्वादश चापरे। सप्त चारग्बधादीनां कषायेऽष्टौ च वर्तिषु ॥ जीवकादिषु चत्वारो घृतञ्चैक प्रकीर्तितम् । कल्पे जीमूतकानाञ्च त्रिंशद्धयोगा नवाधिकाः ॥७॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने
__ जीमूतकल्पो नाम द्वितीयोऽध्यायः॥२॥ फलं कल्कीकृत्य जीवकादीनां चतुर्णामन्यतमस्य रसेन वमनार्थ पित्तश्लेष्म. ज्वरादौ दद्यात् । इति जीवकादिषु चखारो योगाः ॥५॥
गङ्गाधरः-तथेत्यादिना घृतमाह। जीमूतकफलैः सिद्ध क्षीरं मथिला समुत्पन्नं नवनीतं घृतं फलादीनां मदनफलकोविदारादोनां यथायोगं कषायेण चतुर्गुणेन पचेत् । इत्येकयोगः। इत्येकोनचत्वारिंशद्योगा जोमूतस्य व्याख्याता उपसंहियन्ते ॥६॥
गङ्गाधरः-तत्र श्लोकाविति । क्षोरे षड़ योगाः मदिरामण्डे त्वेकः अपरे द्वादश सप्त चारग्वधादिभिः वर्तिष्वष्टौ जीवकादिषु चखार एक घृतमिति जीमूतकल्पेऽस्मिन् नवाधिकास्त्रिंशदयोगा व्याख्याता इति ॥७॥
गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि। अग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते। अमाप्ते तु दृदबल-प्रतिसंस्कृत एव च । कल्पस्थाने तु जीमूत-कल्पेऽध्याये द्वितीयके। वैद्यगङ्गाधरकृत जल्पकल्प- . तरौ पुनः। कल्पस्थाने सप्तमेऽस्मिन् स्कन्धेऽध्याये द्वितीयके। .
जीमृतकल्पजल्पाख्या शाखा द्वितीयकरिता ॥२॥ चक्रपाणिः-जीवकेत्यादिना चतुरो योगाः पानसाधनकषायभेदात्। तथेत्यादिना घृतयोग. मेकमाह। षट्क्षीर इत्यादिना संग्रहार्थो व्याकृत एव यथास्थानम् ॥ ५-७ ॥
इति महामहोपाध्यायश्चरकचतुरानन-श्रीमचक्रपाणिदसविरचितायामायुर्वेददीपिकायां
घरकतात्पर्यटीकायां कल्पस्थानन्याख्यायां जीमूतककल्पो
नाम द्वितीयोऽध्यायः॥२॥
४४४
For Private and Personal Use Only