________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३५४०
चरक-संहिता ।
कषायेष्वासुतं पूत्वा तेनैव विधिना पिबेत् ॥ अथवारग्वधादीनां सप्तानां पूर्व्ववत् पिबेत् ॥ एकैकशः कषायेण श्लेष्मपित्तज्वरादितः । वर्त्तयः फलवच्चाष्टौ कोलमात्रास्तु ता मताः ॥ ४ ॥ जीवकर्षभकेक्षणां शतावर्य्या रसेन वा । पित्तश्लेष्मज्वरे दद्याद वातपित्तज्वरे तथा ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ जीमूतकल्पः
कुहयित्वा गुडूच्यादीनां द्वादशानामन्यतमस्य कपाये स्थापयेद् यावदासुतं स्यात्, तत्पूला तेनैव कषायेण युक्तं विधिना मृदिखा वमनार्थ पिवेत्। कोविदारकब दारनीपविदुरविम्बीशणपुष्पीसदापुष्पीप्रत्यकपुष्पी इत्यष्टौ कोविदारादयः प्रागुक्ताः । तत्र कोविदारो रक्तकाञ्चनालः । कबु दारः श्वेतकाञ्चनालः । नीपः कदम्बः । विदुलो जलवेतसः । विम्बी ओष्ठोपमाफलम् । शणपुष्पी घण्टारवा । सदापुष्पी रक्तार्कः । प्रत्यकपुष्पी अपामार्गः । इति द्वादश योगाः । अथारम्बधादिषु सप्त योगानाह - अथेत्यादि । आरग्वधादीनां सप्तानामारम्बधवृक्षकुटजस्वादुकण्टकपाठा पाटलाशाङ्गेष्ठामूर्व्वाणां पूर्ववदेषामेकैकशः कषाये द्वे वा त्रीणि जीमूतफलानि कुट्टयित्वा स्थापयेत्, तच काले स्वासुतं पूजा तेनैव कषायेण युक्तं मृदिखापिवेदिति । वर्त्तिषु चाष्टौ योगानाह - वर्त्तय इत्यादि । मदनफलवदष्टौ जीमूतफलवत्तयोऽष्टौ कृताः कोलमात्रा मताः । तद्यथाकोविदारादीनामष्टानामन्यतमस्य कषायेण जीमूतफलानां द्वौ भागौ त्रिःसप्तकृत्वो भावयेत् । तेन कषायेण पुनर्जीमूतफलस्यापरमभावितं तृतीयं भागं पिष्ट्रा हरीतकीविभीतकामलकैस्तुल्यां सर्व्वं भावितं पिष्टच जोमूतफलं वर्त्तिं कोलमात्रां कुर्य्यात् इति । अष्टौ वर्त्तयः ॥ ४ ॥
गङ्गाधरः- जीवकादिषु चतुरो योगानाह - जीवकर्षभकेत्यादि । जीमूतस्य पर्य्यागतं ग्राह्यम्” इत्यौत्सर्गिकवचनात् । द्वे चेत्यादिना द्वादशकषायभेदात् द्वादशयोगा उच्यन्ते ; तेनैव विधिनेसि मदनकल्पोकेन साधनविधिना । अथवेत्यादौ आरग्बधादिसतद्रव्यकषायमेदात् सप्त योगा भवन्ति । भारग्बधादयः - आरग्बधवृक्षक स्वादुकण्टककरहाटपाट लिशाङ्गष्टामूष्वन्ताः पूर्वाध्यागोकाः । "माशाः स्युः" इत्यादिना अष्टौ मावायोगानाह । फलवदिति मदनफले यथा अष्टौ मात्रायोगा उताः, तथा इहापि कर्त्तव्याः, विशेषतस्तु एताः कोलमासाः कर्तव्याः, न तु फलवदहरीतक्यादिप्रमाणाः कर्त्तव्या इत्यर्थः ॥ ४ ॥
1