________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मअभ्याय:
कल्पस्थानम् ।
३५३३ .. फलपिप्पलीनां यष्टादिकषायेण त्रिःसप्तकृत्वः परिभावितेन पुष्परजःप्रकाशेन चूर्णेन वृहत्सरसि सञ्जातं वृहत्सरोरुहं साया अवचूर्णयेत्। तद रात्रिव्युषितं प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राफशराक्षोरयवागूनामन्यतमां सैन्धवफाणितयुक्तामाकण्ठमापोतवन्तमाघ्रापयेत् सुकुमारमुक्लिष्टकफपित्तमौषधोषिणम् इति समानं पूर्वेण ॥ १७॥ ___फलपिप्पलीनां भल्लातकविधिस्तं स्वरसं पत्तया सफाणितम् मा तन्तुलीभावात् लेहं दापयेत्। शुष्क वा चूर्णीकृतं जीमूतकादिकषायेण पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण । फलपिप्पलोचूर्णानि पूर्ववत् कोविदारादीनां षण्णाम् कल्कं पादिकं दत्त्वा तेषां चतुर्गुणे कषाये सिद्धं कफाभिभूतान्यादि मात्रया पाययेदिति पूर्वेण समानमाशिषा । इति पयोमुखे पञ्च योगाः ॥१६॥
गाधरः-फलेत्यादि। मदनफलपिप्पलीनां चूर्णेन पुष्परजःप्रकाशेन पुष्परेणसममूक्ष्मरूपेण यष्ट्यादिकषायेग यष्टीमधुककोविदारादीनां नवानां कषायेण त्रिःसप्तकृत एकविंशतिवारान् परिभावितेन वृहत्सरोवरजातहत्पद्मपुष्पं सायाह्न म्रक्षयित्वाधिवासयेत् । रात्रिव्युषितं तत् पद्मपुष्पं प्रभाते पुनस्तेनैव फलपिप्पलीचूर्णनावचूर्णितं म्रक्षितमुद्धत्य हरिद्रां कशरां क्षीरयवागू वा सैन्धवफाणितयुक्तां कण्ठपय्येन्तं पीतवन्तं सुकुमारादिकमाघ्रापयेत् । समानं पूर्वेणाशिषेति। एको योगो प्रेये॥१७॥
गङ्गाधरा-फलेत्यादि। भल्लातकतैलस्रावविधिना मदनफलपिप्पलीनां खरसं सफाणितम् आ तन्तुलीभावात् पक्त्वा लेहं दापयेत् । इत्येको योगो लेहे। शुष्कमित्यादि। मदनफलपिप्पलीजातं शुष्कं चूर्णीकृतं जीमूतादीनां घोषकादीनां कषायेण पित्ते पाययेदिति एको योगश्चूणे। अथ वर्तिक्रियामु
चक्रपाणिः-फलपिप्पलीनां फलादिकषायेणेत्यादिना एकं प्रेययोगमाह । पुष्परजप्रकाशमिति पुष्पधूलिसाशम् । हरिद्राभिधानकृशरः हरिद्राकृशरः । भल्लातकविभिन्न तमिति रसायनोक्तभहातकस्नेहप्रहणविधानेन परिनु सं स्वरसं पेयम् । फाणितयोगोऽयमेकः । तदातपशुष्कत्या . दिना चूर्णयोगोऽप्येकः ॥ १७ ॥ . चक्रपाणिः-फलपिप्पलीचूर्णानीत्यादौ फलादिपटकषायभेदेन कृतत्वात् षट् वर्तिप्रयोगाज्ञेयाः;
४४३
For Private and Personal Use Only