________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[मदनकल्पः
३५३२
चरक-संहिता। ___ फलपिप्पलीक्षीरं तेन वा क्षीरयवागूमधोभागे रक्तपित्ते हृदाहे च ® तृषितस्य वा दध्युत्तरम्। कफ ईतमकमुखप्रसेकेषु तत् पूर्णशरावम, तस्य पयसः शीतस्य सन्तालिकाञ्जलिं पित्ते प्रकुपिते उरकण्ठहृदये च तदनु कफोदिग्धे इति समानं पूर्वेण । फलपिप्पलीश्रृतक्षीरात् नवनीतमुत्पन्नं फलादिकल्ककषायसिद्धं कफाभिभूतानि विशुष्कदेहश्च मात्रया पाययेदिति समानं पूर्वेण ॥ १६ ॥ पाययेदिति पूर्वेण समानमाशीभिरित्यष्टौ योगाः कोविदारावष्टकषायैः पानादिति वर्तिष्वष्टौ ॥१५॥
गङ्गाधरः-फलेत्यादि। मदनफलस्य पिप्पलीक्षीरं पाययेदिति पूर्वेणान्वयः। मदनफलपिप्पलीसिद्धं क्षीरमधोगे रक्तपित्ते पाययेत्। अथवा तेन क्षीरेण सिद्धां यवागू हृद्दाहे च पाययेत् । तेन क्षीरेण जातमुत्तरकालं दधि वृषितस्य दद्यादिति त्रयो योगाः। कफेत्यादि । पूर्ण शरावं तत् क्षीरं कफच्छईितमकश्वासमुखमसेकेषु पाययेदिति क्षीरेऽन्तर्भावान्नाधिकम् । तस्य मदनफल. पिप्पलीसिद्धक्षीरस्य शीतस्य सन्तालिकायाः क्षीरसेति ख्याताया अञ्जलिं पित्ते प्रकुपिते पाययेत् । पूव्वणाशीर्वचनेन समानम्। फलेत्यादि। मदनफलपिप्पलीकल्कसिद्धं क्षीरं मथिलोत्पादितं नवनीतं मदनफलमधुककोविदारादीनां
दोषबलादिविकल्पकृतो ज्ञेयः। समानं पूर्वेणेति पूर्वयोगवदिह स्नेहस्वेदाभिमन्त्रणादिविधान कर्तव्यमित्यर्थः। एवमन्यत्रापि पूर्ववच्छब्दार्थो ज्ञयः॥ १५ ॥
पाणिः-फलपिप्पल्या भीरपाकविधिना साधितं क्षीरं फलपिप्पलीक्षारम्, भयमेको योगः। तेनेति फलपिप्पलीसाधितक्षीरेण, तज्जस्येति फलपिप्पलीक्षीरजातस्य दन्नः। उत्तरकमिति सरम्, सन्तानिका क्षीरोपरिस्थस्त्यानीभागः। फलादीनि फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधमानि षट, एते क्षीरयोगचतुष्टयेन घृतयोगेन च समं पञ्च योगा अध्यायसंग्रहे वक्तव्याः॥१६॥
* तज्जस्य वा दान उत्तरकम् इति चक्रः ।
For Private and Personal Use Only