________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१म अध्यायः ]
कल्पस्थानम् ।
३५३१
फलपिप्पलीनां द्वौ भागौ को विदारादिकषायेण त्रिः सप्तकृत्वो भावयेत् , तेन रसेन तृतीयं भागं पिप्पलीः पिष्ट्रा हरोतकोभिविभीतकैरामलकैर्वा तुल्या वर्त्तयेत् । तासामेकां द्वे वा पूर्वोक्तानामेव कषायाणामन्यतमस्याञ्जलिमात्रेण विमृद्य बलवच्छ्रे ष्मप्रसेकग्रन्थिज्वरोदरादिषु पाययेदिति समानं पूर्वेण ॥ १५ ॥
*
Acharya Shri Kailassagarsuri Gyanmandir
to विरुद्धं कथमिहोष्णवमनयोगे विदध्यादित्यत आह-न चेत्यादि । न चोष्ण विरोधोऽत्र मधुनः कस्मात् ? छर्द नयोगयुक्तस्य मधुनः खलु जाठराग्निना पकस्यैव प्रत्यागमनाद् दोषनिर्हरणाच्चेति । अथ पड़ विरेचनशताश्रितीये यदुक्तम् - " त्रयस्त्रिंशद योगशतं प्रणीतं फलेविति तन्मदनफलेषु त्रयस्त्रिंशदधिकशतयोगा उद्दिष्टास्तेषु यष्टिमधुकोविदारादीनां नवानां कषाययोगेन मदनफलस्य नव योगा इमे प्रोक्ताः ॥ १४ ॥
गङ्गाधरः - अथापरानष्टौ योगानाह - फलपिप्पलीनामित्यादि । उक्तरूपाणां मदनफल पिप्पलीनां द्वौ भागौ पूर्वोक्तकोविदारादीनामष्टानां कषायेण त्रिःसप्तकुल एकविंशतिं वारान् भावयेत् । ततस्तेनाष्टविधकषायेषु येन भावितं भागद्वयं तेनैव कषायेण तद्भिन्नमपरमेकं भागं गृह्णीयात्, तं तृतीयभागं मदनफलं पिष्ट्वा मिलितत्रिभागा मदनफलपिप्पलीई रीत की विभीत कामलकैस्तुल्याः तुल्यमानाः वर्त्तयेत् । वाशब्दः पूर्वोक्तनवयोगापेक्षया न तु हरीतक्यादिविकल्पः, अष्टयोगाधिक्यात् । कर्षमात्रां तासामेकां द्वे वा वर्त्तिके पूर्वोक्तानां कोविदारादीनामष्टानामन्यतमेने कैके नाज लिमात्रेण विमृद्य बलवच्छष्मादिषु माशङ्का समाधानमाह-न चोष्णविरोधो मधुन इत्यादि । अविपकप्रत्यागमनादित्यनेन पच्यमानं मधु उष्णयुक्तं विरुध्येतेति दर्शयति । दोषाभिहरणाचे त्यादि, मधु उष्णविरुद्धमपि वमनयोग इष्यते, तस्य दोषनिहरणादेव न विरोबो भवतीति दर्शयति एवं वस्तियोगे ऽपि मधुन विरोधो वर्णनीयः । एतेन यष्टीमध्वादिनवद्रव्यकृतर्नवभिः कषायैर्नव योगाः ॥ १४ ॥
चक्रपाणिः - फलपिप्पलीनां द्वौ भागावित्यादौ फलपिप्पलीनां भागवयं कर्त्तव्यम्, तब भागद्वयं षड्गुणेन कोविदारादिकषायेण क्षारपरिस्रावणविधिवदेकविंशतिवारान् परिस्रावणीयम्, कोविदारादीनाञ्चाष्टानामष्टौ कषायाः पृथकपरिस्रावणे प्रयोक्तव्याः, येन कषायेण च परित्राज्य फलपिप्पली भागद्वयं हरीतक्यादिमासा तृतीयभागफलपिप्पलीकल्कस्य क्रियते, तेनैव कषायेण मावायोगाः, एवमष्टौ हरीतक्यादिमात्रया निर्दिष्टाः फलपिप्पलीयोगा भवन्ति । मात्राविकल्पश्च त्रावयेदिति चक्रस्वीकृतः पाठः ।
For Private and Personal Use Only