________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५३४ चरक-संहिता।
[मदनकल्प: अन्यतमकषायभावितानि वर्तिक्रियाः कोविदारादिकषायोपसर्जनाः पेया इति समानं पूर्वेण ॥ १८॥
फलपिप्पलीनामारग्बधवृक्षकुटजस्वादुकण्टकपाठापाटलिशाङ्गेष्टामूळ-सप्तपर्णनक्तमाल-पिचुमईपटोलसुषवीगुड़ चीसोमवल्कदीपिकापिप्पलीपिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेराणा - मन्यतमस्य कषायेण सिद्धो लेह इति समानं पूर्वेण ॥ १६ ॥
फलपिप्पलो-सातलाहरेणुकाशतपुष्पाकुस्तुम्बुरुतगरकुष्ठत्वकचोरकमरुवकागुरुगुग्गुल्वेलबालुक-श्रीवेष्टक-परिपेलवमांसोशलेयषड्योगानाह–फलपिप्पलीचूर्णानीत्यादि। पूर्ववत् फलानि संस्थापितानि यानि तेषां मदनफलानां पिप्पल्याश्चूर्णानि कोविदारादीनां षण्णां कोविदारकर्बुदारनीपविदुलविम्बीशणपुष्पीणामेकतमस्य कषायेण भावितानि वर्तीः कर्षमात्राः कुर्यादिति वर्तिक्रियास्तासामेकां द्वे वा पीतवता मदनफल. कोविदारादिकषायाणामन्यतममुपसज्जनं कुर्यादिति वर्तिक्रियाः फलादिकषायोपसज्जेनाः पेया इति समानं पूवण पूच्चोक्ताशिषा। इति वर्तिक्रियासु योगाः पट्॥१८॥
गङ्गाधरः-अथ लेहे विंशतिं योगानाह-फलपिप्पलीत्यादि। आरगबधवृक्षो राजवृक्षः। स्वादुकण्टको वैककृतः, Vइछि इति लोके। शाङ्गेष्ठा काकजङ्घा गुञ्जामूलं वा । सप्तपणेः । सुषवी कारवेल्वः । सोमवल्कः श्वेतखदिरः । दीपिका यमानीमूलम् । एषां विंशतेरन्यतमस्य कषायेण मदनफलपिप्पलीनां चूर्णस्य लेहः कार्य इति लेहे विंशतिर्योगाः॥१९॥
गङ्गाधरः-अथ मोदके विंशतिमाह-फलपिप्पलीत्यादि। सातला चर्म. कषा, खक् गुड़खक, चोरकश्चोरहुलीति, पिडशाकः, मरुवकः पिण्डीतका मदन वर्तिक्रियायां चतुर्गुणेन क्वार न शलाकाकारवर्तिः कर्त्तव्या, अत्रापि च तथा लेहादौ च सामान्योक्तेने मधुप्रक्षेपो युक्तः, तच्चै के मधुनः पाकविरोधानानुमन्यन्ते। फलपिप्पलीनामारग्बधेत्यादिना भारगबधादिविंशतिद्रव्यक्वाथभेदेन कृतत्वाद विंशतिलहा ज्ञेयाः। वृक्षकः कुटजः, स्वादुकण्टको विकृतः, शाङ्गेष्टा गुञ्जा, सुषवी कारवेल्लकम्, द्वीपिका हिना, कष्टकारीत्यन्ये ॥ १८॥१९॥
चक्रपाणिः-फलपिप्पलीष्वित्यादिनोत्कारिका मोदकाश्च प्रत्येकं विंशतिः । चोरको गन्ध.
For Private and Personal Use Only