________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः] चिकित्सितस्थानम्।
२३५६ निस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत्। हांसवाहिणदाक्षाणि ® चैवमण्डानि भक्षयेत् ॥ २०॥
इति वृष्यरसः।
भवतश्चात्र। स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदाय हि तदत्ति काले । वृषायते तेन परं मनुष्यस्तद् वृहणञ्चैव बलप्रदन्तु॥ तस्मात् पुरा शोधनमेव कायं बलानुरूपं न हि सिद्धियोगाः । सिध्यन्ति देहे मलिने प्रयुक्ता म्लिष्टे यथावाससि रागयोगाः॥२१॥
तत्र श्लोको। वाजीकरणसामर्थ्य क्षेत्र स्त्री चैव यस्य या।
ये दोषा निरपत्यानां गुणाः पुत्रवताश्च ये॥ गङ्गाधरः--निःस्राव्येत्यादि। मत्स्याण्डरसं मत्स्यडिम्ब जल पक्त्वा रसं कृखा वस्त्रेण निस्राव्य सर्पिषि नूतने भृष्ट संभृष्ट सहान्नेन भक्षयेत् । एवं हंसानामण्डानि जले पक्त्वा रसं कृला वस्त्रेण निःस्राव्यान्नेन सह भक्षयेत् । तथा बहिणामण्डानि साधयिखा तथा दक्षाणां कुक्कुटानामण्डानि साधयिखा रस परिखान्यान्नेन सह भक्षयेत् । हंसस्येदं हांसं वहिण इदं वाहिणं दक्षस्येदं दाक्षं तानि च अण्डानि इत्यन्वयः॥२०॥
इति वृष्यरसः। गङ्गाधरः-श्लोकद्वयं संग्राहकम् । वाजीकरणयोगानां सिद्धार्थ प्रयोगविधिमाह-भवतश्चेत्यादि । स्रोतःस्वित्यादि। स्रोतःसु रसादिवहेषु शुद्धेषु सत्सु शरीरे चामले संशोधनेन निर्ह तमले सति शुद्धे यद् वृष्यमौषधं यस्य हितमयं खाद्य भवति स तदौषधं कालेऽत्ति। स च मनुष्यस्तेनौषधेन परमुत्कृष्ट
चक्रपाणिः-निशीत्यनेन सकलनिशां मैथुनेऽपीति दर्शयति। हंसेति हंसवहिवभाणामण्डादिप्रयोगाः यद्यपि भिन्नाः, तथापि प्रयोगापेक्षया एक एवायं प्रयोगः, एवं संग्रहोक्ताः हंसवर्हि दक्षाणामेकप्रयोगेण पञ्चदश प्रयोगाः पूर्य्यन्ते । संग्रहे अस्स चैव येति यस या वृष्येत्यर्थः ।
• हंसर्हिणवृक्षाणामिति चक्रतः पाठः। + वृष्ययोगाः इति पठन्ति केचित् ।
For Private and Personal Use Only