________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५८
चरक-संहिता। (वाजीकरणपाद : तृप्तिं चटकमांसानां गवा योऽनुपिबेत् पयः। न तस्य लिङ्गशैथिल्यं स्यान्न शकलयो निशि ॥ १७॥
इति वृष्यमांसम् ।
माषयूषेण यो भुक्ता घृताढ्य षष्टिकौदनम् । पयः पिबति रात्रिं स कृत्स्ना जागर्ति वेगवान् ॥१८॥
न ना स्वपिति रात्रीषु निस्तब्धेन च शेफसा। तृप्तः कुक्कुटमांसानां भृष्टानां नक्ररेतसि ॥ १६ ॥
गङ्गाधरः-तृप्तिमित्यादि। चटकमांसानां न तु तेषां रसस्य । केवलं चटकमांसं पक्वान्न न भुक्त्वा तन्मांसमात्रमेव आतृप्तितो भुक्त्वा तदनु गव्यं पयो यो नरः पिबेत् तस्य निशि लिङ्गशैथिल्यं न स्यात् तावद्रात्रि व्याप्य लिङ्गमुद्गम्य वर्तते शुक्रक्षयश्च न स्यात् इत्यर्थः ॥ १७ ॥
, गङ्गाधरः-माषेष्यादि। यः पुमान् घृताढ्य पष्टिकोदनं माषयूषण भुक्त्वा तदनु पयः पिबति स कृत्स्नां रात्रि वेगवान् कामवेगवान सन् जागर्ति ॥१८॥
गङ्गाधरः-न नेत्यादि। नक्ररेतसि कुम्भीरशुक्रे भृष्टानां कुक्कुटमांसानां तृप्तो ना पुरुषः निस्तब्धेन शेफसा रात्रीषु न स्वपिति ॥१९॥
नित्यं स्तब्धेन इति वा पाठः ।
For Private and Personal Use Only