________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः ]
२३५७
चिकित्सितस्थानम् । घृतं माषान् सवस्ताण्डान साधयेन्माहिषे रसे। भजयेत् तं रसं प्रतं फलाम्लं नवसर्पिषि ॥ ईषत् सलवणं युक्तं धान्यजीरकनागरैः। एष वृष्यश्च बल्यश्च वृहणश्च रसोत्तमः ॥१५॥
चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे। कुक्कुटान् वर्हिणरसे हांसे वहिणमेव च ॥ नवसर्पिषि सन्तप्तान् फलाम्लान् कारयेद् रसान् । मधुरान् वा यथासात्म्यं गन्धाढ्यान् बलवर्द्धनान् ॥ १६ ॥
इति वृष्यरसाः।
गङ्गाधरः-घृतमित्यादि। माहिषमांसरसं कृखा तत्र रसे घृतं माषान् वस्ताण्डेश्छागानामण्डकोषफलैः सह साधयेत् पचेत् । ततस्तं रसं पूतं वस्त्रेण गालितं नूतनघृते भज्जयेत् सन्तलयेत् । ततस्तत्र दाडिमाम्रफलामलकादीनां फलरसं दत्त्वा तं रसमम्लं कृत्वा ईपत् सैन्धवं दत्त्वा धन्याकजीरकनागराणां चूर्णरीषदयुक्तं कुर्यादित्येष रसोत्तमो वृष्यादिर्भवति ॥१५॥ ___ गङ्गाधरः-चटकानित्यादि । तित्तिरिमांसं जले पक्त्वाच्छमच्छतरं वा रसं कृखा वस्त्रेण गालयिखा तत्र रसे चटकानां मांसं साधयेत् । ततो वस्त्रपूतं तं रसं नवसर्पिषि सन्तप्त संभृष्टं कुर्यात् । ततः फलाम्लं दाडिमादिस्वरसेनाम्लं यथासात्म्यं शर्करादियोगेन मधुरं वा कृखा एलादिचूर्णयोगेन गन्धाढ्यं कुर्यात्। एवं तित्तिरीन् तित्तिरिमांसानि कौक्कुटे रसे। कुक्क टान् कुक्क टमांसानि वहिणरसे मयूरमांसरसे। चर्हिणं मयूरमांसं हांसे हंसमांसरसे साधयिखा पूखा तं रसं नवसपिषि संभृष्टं फलाम्लं यथासात्म्यं मधुरं वा कृखा गन्धाब्यश्च कृता योजयेदित्यर्थः ॥१६॥ इति वृष्यरसाः ।
२९६
For Private and Personal Use Only