________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५६
चरक-संहिता। [ वाजीकरणपाद. शर्करा माषविदलास्तुगाक्षीरी पयो घृतम् । गोधूमचूर्णषष्ठानि सर्पिषत्कारिकां पचेत् ॥ तां नातिपक्कां मृदितां कौक्कुटे मधुरे रसे। सुगन्धे प्रक्षिपेदुषणे यथा सान्द्रीभवेद् रसः ॥ एष पिण्डरसो वृष्यः पौष्टिको बलवर्द्धनः। अनेनाश्व इवोदीर्ण-बलो लिङ्गं समर्पयेत् । शिखितित्तिरिहंसानामेवं पिण्डरसो मतः॥ १४ ॥
इति वाजीकरणपिण्डरसाः।
रक्षेत्। अत औषधात् पलमष्टतोलकं पूवे न प्रातःकाले किन्तु भोजनकाले पूर्वमेतदौषधपलं लीद्वा ततोऽनन्तरमन्नमुपयोजयेत् ॥१३॥
इति वाजीकरणं घृतम् । गङ्गाधरः-शकरेत्यादि। शर्करा च माषविदलाश्च तुगाक्षीरी च गव्यं पयश्च गव्यघृतञ्चैतानि गोधूमचर्णषष्ठानि यथायोग्यानि मानतो नीता तेषु मध्ये सर्पिषि प्रथमं गोधूमचूणमाषविदलौ 'किञ्चिद् भृष्टा ततोऽनन्तरं शर्करादीनि त्रीणि दत्त्वा उत्कारिकां पचेत् यथा नातिद्रवा भवेत् । तां नातिद्रवां पका करेण मृदितां कौक्कुटे कुक्कुटमांसस्य रसे शर्करादियोमेन मधुरे एलादिवर्णयोगेन सुगन्धे च उष्णे च प्रक्षिपेत् यथा स रसः सान्द्रीभवेत् । एष पिण्डरसः पिण्डीभूतो रसः।। शिखीत्यादि। एवं शर्करादीनां पप्णां पूर्वयोगोक्तानां पञ्च द्रव्याणि पूर्ववद घृतेषत्कारिकां नातिद्रवां पक्त्वा विमुद्य पूर्ववत् मधुरे सुगन्धे चोष्णे च शिखिमांसरसे वा तित्तिरिमांसरसे वा समांसरसे वा यथा रसः सान्द्रीभवेत् तथा प्रक्षिपेत् । इत्येवं पिण्डरसो मतः॥१४॥
इति वाजीकरणपिण्डरसाः।
द्रव्यलालधीति बदन्ति । स्थानम इति घनाः । द्वितीयप्रयोगे रस इति क्वाथे। उत्कारिका मूषिकोकास। शिखितित्तिरिहंसानां व्यस्तसमस्ताश्चत्वारः पिण्डरसाः॥१२-१४॥
For Private and Personal Use Only