________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः]
चिकित्सितस्थानम्।
२३५५ माषाणामात्मगुप्ताया वीजानामाढकं नवम् । जीवकर्षभको मेदां वीरामृद्धिं शतावरीम् ॥ मधूकञ्चाश्वगन्धाश्च साधयेत् कुड़वोन्मिताम् । रसे तस्मिन् घृतप्रस्थं प्रस्थमित्रसस्य च ॥ विदारोणां रसप्रस्थं गव्यं दशगुणं पयः। दत्त्वा मृद्वग्निना साध्यं सिद्धं सपिर्निधापयेत् ॥ शर्करायास्तुगाक्षीUः क्षौद्रस्य च पृथक पृथक् । भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत् पलम् ॥ पलं पूर्वमतो लीढ़ा ततोऽनमुपयोजयेत् । य इच्छेदक्षयं शुक्र शेफसश्चोत्तम बलम् ॥ १३॥
इति वाजीकरणं घृतम् । गङ्गाधरः-वृष्ययोगान्तरमाह-माषाणामित्यादि । मावाणां नूतनानामादकमष्टशरावं, नूतनस्य चात्मगुप्तायाः फलस्याढ़कमष्टशरावम् । वीरा शालपर्णी । मंधूकं मधूकपुष्पं फलं वा। एषां जीवकादीनामश्वगन्धान्तानामष्टानां प्रत्येक कुड़वं मिलितं चतुःशरावम्। सर्वमेकीकृत्य यावन्मितं भवति ततोऽष्टगुणे जले साधयेत्। तथा च माषादीनां दशानां द्रव्याणां शरावं विंशतिर्भवति तत्सर्वमैकध्यं षष्टुपत्तरशतशरावे जले मन्दमन्दाग्निना पक्त्वा चत्वारिंशच्छरावं काथमवशेषयेत्। तस्मिंश्चखारिंशच्छरावमिते रसे काथे वत्सरातीतं घृतप्रस्थं गव्यघृतस्य चतुःशरावम्, इक्षरसस्य च प्रस्थं द्वैगुण्याच्चतुःशरावम्, विदारीणां भूमिकुष्माण्डानां रसप्रस्थं स्वरसस्य चतुःशरावम्, गव्यं पयश्च घृतादशगुणं चखारिंशच्छरावं दत्त्वा मृद्वमिना साध्यं पाच्यम्। शब्द वापरमे फेनस्योपरमे गन्धवर्णरसादीनां सम्पत्तो च तत् सर्पिः सिद्धं भवति, तदानीमवतार्य श्लक्ष्णवस्त्रेण गालयिता निधापयेत् पात्रे स्थापयेत् । अकल्कमिदं घृतम्। तत्र सिद्धे घृते सितायाः शर्करायाश्चतुःपलान् भागान्, तुगाक्षी- वंशलोचनायाश्चतुःपलान् भागान्, पिप्पल्याश्च पलमेकं चर्णमावपेत् । सर्वमालोड्य मिश्रीकृत्य सुशीते नवस्य क्षौद्रस्य चतुःपलान् भागान् तत्रावपेत्। ततो मिश्रीभूतमेतदौषधं मुनिगुप्त
For Private and Personal Use Only