SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाजीकरणपाद २३५४ चरक-संहिता। . विदार्यामलकेतृणां रसस्य च पृथक पृथक् । सर्पिषश्चादकं दद्यात् क्षीरद्रोणञ्च तद् भिषक् ॥ साधयेद् घृतशेषश्च सुपूतं योजयेत् पुनः। शर्करायास्तुगाक्षीर्याश्चूणैः प्रस्थोन्मितैभिषक ॥ पलैश्चतुर्भिर्मागध्याः पलेन मरिचस्य च । त्वगेलाकेशराणाञ्च चूणैरर्द्धपलोन्मितः॥ मधुनः कुड़वाभ्याञ्च द्वाभ्यां तत् कारयेद् भिषक् । ... पलिका गुड़िकाः कृत्वा ® ता यथाग्नि प्रयोजयेत्॥ एष वृष्यः परो योगो वृहणो बलवर्द्धनः। अनेनाश्व इवोदीर्णो लिङ्गमर्पयते स्त्रियाम् ॥ १२॥ इतिहणी गुड़िका। शतावय्यन्तानि अष्टौ पेष्याणि कल्कान्। विदाय्या रसस्याढ़कं षोड़शशरावम्, आमलकस्य च रसस्याढकं षोड़शशरावम्, इक्षणाश्च रसस्यादकं षोड़शशरावं, सर्पिषः संवत्सरातीतस्य गव्यघृतस्यादकं षोड़शशरावं, निष्फेनीकृतं क्षीरद्रोणं गव्यदुग्धस्य चतुःषष्टिशरावश्च दत्त्वा । भिषक तत् मन्दमन्दाग्निना घृतशेष साधयेत्, पक्त्वा घृतमात्रमवशेषयेत् । सुपूतं वस्त्रेण परिस्र तं तद् घृतं पुनः शर्करायाः प्रस्थोन्मितैः शरावद्वयोन्मितैः चर्णस्तुगाक्षी- वंशलोचनायाश्च प्रस्थोन्मितैः चूर्णर्मागध्याः पिप्पल्याश्चतुर्भिः पलैश्चर्णेमरिचस्य चर्णस्य पलेन खचो गुड़सचश्चर्णेर पलोन्मितः एलायाश्चरर्द्धपलोन्मितः केशराणां नागकेशरपुष्पाणां चूर्णरर्द्धपलोन्मितः सह योजयेत् मेलयेत् । शीते वत्सरातीतस्य मधुनो द्वाभ्यां कुड़वाभ्याश्च एकशरावेण योजयेत् । युक्तं तत् सर्वं भिषक पलिका अष्टतोलकमिता गुड़िकाः कारयेत्, कृखा च ता गुड़िका यथामि प्रयोजयेत् । अनेन भेषजेनाश्व इव उदीर्णः सन् स्त्रियां लिङ्गमर्पयते॥१२॥ इति टहणी गुड़िका व्याख्याता। हि ऐहिकान्येव परं न पुतवदुभयलोकोपकारकाणि । उपभोगेन मैथुनेन सुखं कुर्वन्तीत्युपभोगसुखा। किंवा उपभोक्तु सुखाः उपभोगसुखाः ; वीर्य शुक्रम् ॥ १०॥ ११ ॥ चक्रपाणिः-काण्डेक्षुर्वृहदीक्षुरः ; तुगाक्षीरी वंशलोचना, अन्ये वंशरोचनानुकारिपार्थिव* स्त्याना इति वा पाठः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy