SearchBrowseAboutContactDonate
Page Preview
Page 1299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३५२८ [ मदनकल्पः चरक संहिता | वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचचते ऽनपायित्वात्, तानि वसन्तग्रीष्म योरन्तरेषु पुष्याश्वयुग्भ्यां मृगशीर्षेण वा गृह्णीयात् मैत्रे मुहूर्त्ते, करणे च यानि पक्वान्यहरितानि पाण्डून्यक्रिमीण्यकृशाल्पहखाल्पपूतानि प्रगृह्य कुशपुटे बड़ा गोमयेनानुलिप्य यवतुषमाषशालिनी हिकुलत्थमुद्गपर्णानामन्यतमेनाच्छाद्य चाष्टरात्रं निदध्यात् । श्रत ऊर्द्ध्वं मृदुभूतानि मध्विष्टगन्धान्युद्धृत्य शोषयेत्, शुष्काणां फलानां पिप्पलीरुद्धरेत् । तासां घृतमधुदधिपललविमृदितानां पुनः शुष्काणां तासां नवं कलसं प्रमृज्य बालुकारजस्कमा कण्ठं पूरयित्वा स्ववच्छन्नं स्वनुगुप्तं सिक्ये स्वासज्य स्थापयेत् ॥ १२ ॥ अथ छर्दनीयं द्वाहं नाहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दि - गङ्गाधरः- तत्रादौ श्रेष्ठत्वान्मदनफलकल्पमाह - वमनेत्यादि । अश्वयुगश्विनी, मैत्रे मुहूर्त्त शुभमुहुर्त्त करणे च यानि मदनफलानि पक्कानीत्येवमादीनि तानि प्रगृह्य कुशपुटे बड़ा गोमयेनानुलिप्य यवाद्यन्यतमेनाच्छाद्य च निदध्यादष्टरात्रम् । अत ऊर्द्ध मष्टरात्रात परं मृदुभूतानि मधुवदिष्टगन्धानि उद्धृत्य शोषयेत् । शुष्काणां तेषां मदनफलानां पिप्पलीः कणा उद्धरेत् । तासां मदनफलपिप्पलीनां घृतादिमृदितानां पुनः शुष्काणां तासां मदनफलपिप्पलीनां नवं कलर्स प्रमृज्याकण्ठं बालुकारजस्क पूरयिला सुष्ठु चावच्छन्नं सुनिगुप्तं सिक्ये स्वासज्य स्थापयेत् । पूरणार्थ योगे षष्ठी तासामिति करणार्थे ॥ १२ ॥ गङ्गाधरः—अथ वमनकरणप्रकारमाह - अथेत्यादि । द्वाहं हं वा स्नेहचक्रपाणिः - चमनद्रव्याणामित्यादिना मदनफलस्य प्राधान्योपदर्शनपूर्वकं प्रयोगविधिमाह । पयित्वादिति वमनद्रव्यान्तरापेक्षयाऽल्पव्यापत्तिकत्वात् । अन्तर इति मध्ये, स च ग्रीष्मबसन्तयोरन्तर्वर्त्तिकतिपय दिनान्येव मध्यो ज्ञेयः । अश्वयुक् अश्विमी । मैले मुहूर्त्त इति शिवभुजगमित्रादीनां मध्ये मित्रदेवताक एव मैने मुहूर्त्ते । फलानामिति राशीनाम्; मधुवदिष्टगन्धों येष तानि यानि मध्विष्टगन्धानि भवन्ति, तानि ब्राह्माणोति दर्शयति । फलपिप्पलीरिति मदनफलमध्यगतानि पिप्पली संस्थानि वीजानि । पूर्ण तासामिति पूरणार्थशब्दयोगात् करणे षष्ठी । स्वनुगुप्तमिति कृतरक्षाविधानम् ॥ १२ ॥ चक्रपाणिः - द्वयहं हं वा स्नेहस्वेदोपपन्नमित्यनेन अभ्यङ्ग क्रियमाणे स्नेहसहचरितश्वेदोप Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy