________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] कल्पस्थानम्।
३५२६ तव्यमिति प्राम्यानूपोदकमांसरसक्षीरदधितिलमाषतण्डुलपललशाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णाहारं पूर्वाह्न कृतहोमबलिमङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वा घृतमात्राञ्च पोतवन्तम्, तासां फलपिप्पलीनामन्त खमुष्टिं यावद् वा साधुमन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदारकवंदारनीपविदुलविम्बीशणपुष्पी-सदापुष्पीप्रत्यकपुष्पोकषायाणामन्यतमेन वा रात्रिमुषितविमृदितं मधुसैन्धवसंयुक्तं सुखोष्णं कृत्वा पूर्ण शरावं मन्त्रेणाभिमन्त्रयेत् । क्रियया स्निग्धं ततः स्वेदेन स्विन्नं छई नीयमातुरं श्वः परस्मिन्नहनि छद्दयितव्य. मिति कुवा पूर्व दिने ग्राम्यादिमांसरसलीरादि पललं मांस भक्षयिखा समुत् क्लेशितश्लेष्माणं व्युषितं रात्रौ कृतवासं जीर्णाहारं प्रातःकाले कृतहोमादिकं निरन्नमनतिस्निग्धं तं जनं यवाग्वा घृतमात्रां पीतवन्तम्, तासां पूर्व स्थापितानां मदनफलपिप्पलीनामन्त खमुष्टिपरिमितमथवा यावन्मात्रेण सम्यगवमनं भवतीति मन्येत तावन्मानं जर्जरीकृत्य श्लक्ष्णं पिष्ट्वा यष्टिमधुकषायेण कोविदारादीनाम् अन्यतमेन कषायेण वा रात्रिमुषितं प्रातर्विमृदितं घृतमधुसंयुक्तं सुखोष्णं कृता पादनं द्वहं यह वा विधीयते, “साहावरं सप्तदिनं परन्तु स्निग्धो नरः स्वेदयितव्य इष्टः" इत्यनेन तथाप्रयुज्यमानस्नेहस्य सप्तरात्रं त्रिरात्रं वा प्रकर्ष उच्यते इति न विरोधः । एतच्चाभ्यङ्गस्वेदसहितस्नेहस्वेदकरणं पानस्नेहान्तदिवसमारभ्य क्रियते, तेन स्नेहपानविश्रामदिनेन समं तदन्तपूरणमभ्यङ्गस्नेहसहितस्वेदप्रयोगस्य भवति ; स्नेहपानाच्च यद विश्रामदिनम्, 'एकाहात् परतस्तद्वद् भुत्तवा प्रच्छईनं पिबेत्' इत्यनेनोक्तम्, तथैवेहापि। कफोत्क्लेशकारिभोजनमाहछई यितव्यमित्यादिना। श्व इति परस्मिन्नह्नि। व्युषितमिति रातिमतिकान्तम् । निरनमिति पक्षच्छेदः । अनतिस्निग्धमित्यादिना वमनदिन एवं घृतमात्रायुक्तयवागूपानपूर्वकं वमनमनतिस्निग्धपुरुषविषयं व्रते। अन्ये तु पूर्वदिन एवानतिस्निग्धस्य घृतमात्रां पीतवत एव यवाग्वाः पानमाहुः-"स्निग्धविनाय वमनं दत्तं सम्यक् प्रवर्त्तते ; अथापरेय : पूर्वाह्न साधारणे काले वमनद्रव्यकषायकलचूर्णस्नेहानामन्यतमस्य" इत्यादि सुश्रु तोक्तेः । अन्तर्नखमुष्टिमिति अन्तरीकृतनखमुष्टिपरिमाणम् , यावद् वा साधु मन्येत इत्यनेन मातायाः बलदोषादिभेदेनास्थिरत्वमित्याह। यष्टीमधुकस्य कोविदारादिषु विच्छेदपाठ उत्तरप्रयोगेषु कोविदारादेयष्टीमधुविरहितस्य ग्रहणार्थः, कोविदारः स्वनामख्यातः, स शरदि पुष्पति । कव्वंदारस्तु काचनारः, स वसन्ते पुष्पति । नीपः कदम्बा, विलो वेतसः। शणपुष्पी घण्टारवा, सदापुष्पी अर्कपुष्पिका, प्रत्यकपुष्पी अपामार्गः।
For Private and Personal Use Only