________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः] कल्पस्थानम् ।
३५२७ मङ्गलाचारकल्याणवृत्तः शुचिः शुक्लवासाः संपूज्य देवतामग्निमश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्। गृहीत्वा चानुरूपगुणवद्भाजने संस्थाप्यागारेषु प्रागुत्तरद्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्खग्निसलिलोपस्वेदधूमरजोमूषकचतुष्पदामनभिगमनीयानि खवच्छन्नानि सिक्ये च खासज्य स्थापयेत् । .
तानि च यथादोषमुपयुञ्जीत। सुरासौवीरकतुषोदकमेरेयमेदकधान्याम्बुफलाम्बुदध्यादिभिर्वाते, मृद्वीकामलकमधुकपरूषकफलफाणितक्षीरादिभिश्च पित्ते, श्लेष्मणि तु मधुमूत्रकषायादिभिभवितान्यालोड़ितानि चेत्युद्देशः। तं विस्तरेण द्रव्यदोषदेहसात्म्यादीन् प्रविभज्य व्याख्यास्यामः ॥११॥ साराणि पर्णपुष्पफलञ्चेति । मङ्गलेत्यादि । मङ्गलाचारकल्याणवृत्तादिः पुमान् तत्तवशाखापलाशादीनि गृह्णीयात् । गृहीत्वेत्यादि । यद द्रव्यं यद्गुणं तद्गुणानु. रूपगुणवद्भाजने प्रागुदगद्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारादिमत्स्यागारेषु संस्थाप्याग्न्यादीनामनभिगमनीयानि सुष्ठ अवच्छन्नानि तानि द्रव्याणि सिक्ये सुष्ठ आसज्य स्थापयेत् । तानीत्यादि। तानि यथोक्तशाखापलाशादीनि द्रव्याणि यथादोषं सुरादिभिर्भावितान्यालोड़ितानि वाते उपयुञ्जीत, मृद्वीकादिभिः पित्ते, मधुमूत्रादिभिः श्लेष्मणि इत्युद्देशः संक्षेपवचनम्। तं प्रयोग विस्तरेण ॥११॥ मान्यत-"सौम्यान्यौषधानि सौम्येषु आददीत, आग्नेयान्याग्नेयेषु" इति। भेषजग्रहणविधानमाह-मङ्गलेत्यादि। भाजनसम्पदमाह–अनुरूपेत्यादि। अनुरूपगुणवञ्चाजनस्थमिति अनुरूपगुणवत्ता च भाजनस्य भेषजसमानगुणतयैव। स्वबच्छन्नानोति सम्यक् पिहितानि । संक्षेपेग मदनफलादीनां वातादिभेदेन भावनालोड़नद्रव्याण्याह-तानि च यथादोषं प्रयुञ्जीते. स्यादि। धान्याम्ल कालीकम्। फलाम्ल दाडिमरसादि। श्लेष्मणीत्यादौ कषायशब्देन श्लेष्महरद्रव्यक्वाथोऽभिप्रेतः। उद्देश इति संक्षेपाभिधानमिति । द्रव्यदेहृदोषसाम्यादीनित्यक्ष भादिशब्देन प्रकृतिबलादीनां ग्रहणम् ॥११॥
For Private and Personal Use Only