________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२४ चरक-संहिता।
[मदनकरूपः संख्येयोपयोगानामपि च सतां द्रव्याणां विकरूपमार्गोपदर्शनार्थ षड़ विरेचनयोगशतानि व्याख्यास्यामः ॥ ५॥
तानि तु द्रव्याणि देशकालगुणभोजनसम्यगवीर्यबलाधानात् क्रियासमर्थतमानि भवन्ति ॥६॥
त्रिविधः खलु देशो जाङ्गलोऽनूपः साधारणश्चेति तत्र जागाल: पर्साकाशभूयिष्ठः, तरुभिरपि कदरखदिराशनाश्वकर्णअपरिसद्धेश्योपयोगानामपि च सतां विकल्पमार्गापदर्शनार्थ षडू विरेचनयोगशतानि व्याख्यास्यामो विस्तरेण वक्ष्यामः, षड्विरेचनशताश्रितीये यस्य यस्य मदनफलादेर्यावन्तो यावन्तो योगा उक्ता न खन्येषाम् । कस्मात् ? तानि तु द्रव्याणि देशकालादिवलाधानात् क्रियासमर्थानि भवन्ति। नैवमन्यानि क्रियासमर्थानि स्युः ॥ ५॥६॥
गङ्गाधरः-तत्र देशमाह-त्रिविध इत्यादि । तत्र जाङ्गल इति । पर्साकाश. भूयिष्ठः परि सर्वतो दिक्षु आकाशभूयिष्ठो यो देशस्तरुभिरपि च यौगिकं सर्वत्र काले वा प्राप्यते सर्वत्र देशे वा ; तस्माई हदोषादिना भेदवति पुरुषे बहून्येव द्रयाणि बहुभिश्व प्रयोगैरुपकल्पितानि यथायोग्यतया यथाप्राप्ति च प्रयोक्तु शक्यन्ते ; अतो बहूनामेव मदनादिद्रव्याणां बहुप्रकारप्रयोगाणामुपन्यासो युक्त इति भावः। ग्रहणाइपलम्भनात्, देहो नाना स्थूलकृशादिभेदेन ; भक्तिरिच्छा, अवस्थाशब्देनेह रोगावस्थैव ग्राह्या ; आदिशन्देनेह सस्वाहारयोहणम् ; भूरिविरेचनप्रयोगोपदर्शनप्रयोजनान्तरमप्याह-विचित्रेत्यादि। नानाविधगन्धवर्णरसतयानुपयोगे तत्कालमुत्तरकालञ्च सुखानुवादार्थच त्यर्थः। अथ प्रभेदान्मदमफलादीनां षटप्रयोगशतानि भवन्ति ; येन नाधिक्यं प्रयोगाणामभिधीयत इत्याशङ्कयाहभसंख्येयेत्यादि। विकल्पमार्गोपदर्शनार्थमिति, अधिकप्रयोगकल्पनार्थमभिधीयते, एतत् षटप्रयोगशतोपदर्शनं कर्तव्याधिक प्रयोगकल्पनामार्गोपदर्शकम् ; तेन परेऽप्यत्र प्रयोगाः कल्पनीयाः, ग्रन्थे निःशेषप्रयोगानभिधानं प्रयोगाणामसंख्येयत्वेनाशक्यत्वादेव ; अनतिविस्तरषट्प्रयोगशताभिधानं, मन्दबुद्धिसम्यवहारार्थमिति भावः ; उक्तं ह्यन्यक्ष-"एतावन्तो ह्यल्पबुद्धीनां व्यवहाराय बुद्धिमताच स्वालक्षण्यानुमानयुत्ति कुशलानामनुक्कार्थज्ञानाय" इति ॥५॥
चक्रपाणिः-सम्प्रति वमनविरेचनद्रव्याणां देशादिसम्पस्या गुणोत्कर्ष दर्शयन्नाहतानीत्यादि। देशादिभिश्चतुर्भिः 'सम्पत्'शब्दः प्रत्येकमभिसम्बध्यते ; भाजनं भेषजस्य स्थानम् ; वीर्यस्य बलं वीर्योधिकत्वमेव । देशादि सम्यक व्याकुर्वनाह-तत्र विविध इत्यादि। तस
For Private and Personal Use Only