________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः कल्पस्थानम् ।
३५२३ तत्र फलजोमूतकेक्ष्वाकुधामार्गवकुटजकृतवेघनानाम,श्यामात्रिवृच्चतुरगुल-तिल्वक-महावृक्षसप्तला-शङ्खिनीदन्तीद्रवन्तोना नानाविधदेशकालसम्भव-खादुरसवोर्यविपाकप्रभावग्रहणानाम्, देहदोषप्रकृतिवयोबलाग्निभुक्तिसात्म्यरोगावस्थादीनां नानात्मकत्वाच्च विचित्रगन्धवर्णरसस्पर्शानामुपभोगसुखार्थमपरिप्लवनबाद वायोरग्निवाय्वात्मकद्रव्येण वमनम्। निम्नगलस्वभावात् सलिलस्य गुरुवात् पृथिव्याः सलिलपृथिव्यात्मकेन द्रव्येण विरेचनं भवति । उभयतश्चोभयगुणवादिति। यद् द्रव्यमग्निवायुसलिलपृथिव्यात्मकं तदुर्भाधोगमनप्रभावादुभयतोभागहरं तेन दोषसङ्घात उभयतश्च प्रवत्तेते। इति वमनविरेचनलक्षणोद्दशः संक्षेपेण वचनमिति ॥४॥
गङ्गाधरः-तत्रेत्यादि। तत्र वमनविरेचनद्रव्येषु मध्ये मदनफलादीनां पण्णां वमनद्रव्याणां श्यामादीनां नवानां विरेचनद्रव्याणां नानाविधदेशादिसम्भवात् स्वाद्वादिग्रहणानांदेहादिनानालाच विचित्रगन्धादीनामुपभोगसुखार्थम् यतः प्रभावस्यैवेह वमनकार्ये वावग्न्यात्मकगुणतया वाय्वन्यात्मकत्वं हेतुरुपदृश्यते, न तु वायवन्यात्मकत्वं स्वतन्त्रो वमनहेतुः, तथाहि सति यदन्यदपि वाय्वग्न्यात्मकम् ऊर्द्धभागदोष. हरत्बप्रभावरहितम्, तदपि वमनकरं स्यात्, यथा कटुकरसे द्रव्ये तत् स्यात्, तस्मात् प्रभावगुणतयैव हेतुवर्णनम्, एवं विरेचनद्रव्येऽपि पूर्वपक्षसिद्धान्तावनुसर्तव्यौ ॥३॥ ४॥
चक्रपाणिः-सम्प्रति कल्पस्थानस्य बक्तव्यतया षड़ विरेचनप्रयोगशतान्यनतिसंक्षेपविस्तरप्रयोगोपदर्शनपूर्वकं प्रतिजानीते-तत्र फलेत्यादिना 'षडविरेचनयोगशतानि व्याख्यास्यामः” इत्यनेन । तत्र कृतवेधनान्तानां विच्छेदपाठे वमनप्रयोगप्रयोज्यत्वम्, श्यामादीनां विरेचनप्रयोगप्रयोज्यत्वञ्च दर्शयति, असंव वमने विरेचने कैकेषान्तु पुनर्वस्तूनां मदनफलादीनां श्यामादीनाञ्च बहवः प्रयोगा अभिधीयन्ते, न पुनरेकैकमेव द्रव्यं वमनकारक विरेचनकारकम् , स्वल्पसंख्याप्रयोगेण ग्रहणसुखता वमनविरेचनयोगस्य भवति, कार्यञ्च सिध्यतीत्याशङ्कयाह-नानाविधे. त्यादि। यावद्रोगावस्थादिनानाप्रभाववत्त्वाचेति । अस्यार्थः-यस्मान्नानाविधदेशकालसम्भवाः नानाविधास्वादाः नानाविधवीर्याः नानाविधविपाकाः नानाविधप्रभावध मदनफलादिकाः मोषध्यः, तथा तत्संस्कारकाः कोविदारादिका ओषध्य उपलभ्यन्ते, पुरुषाश्च देहदोषप्रकृतिवयोबलाग्निभक्तिसारम्यरोगावस्थाभिन्ना नानाविधा दृश्यन्ते, तेन नैकद्रव्यं सर्वस्मिन् देहदोषादौ
For Private and Personal Use Only