________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२२ चरक-संहिता।
[ मदनकल्पः भाजनस्थमिव क्षौद्रमसज्जन् प्रवणभावादामाशयमागम्योदानप्रणुनोऽग्निवाय्वात्मकत्वादूर्द्ध भागप्रभावादौषधस्योद्ध मुभिद्यते। सलिल-पृथिव्यात्मकत्वादधाभाग प्रनावादी धस्याधः प्रवर्तते, उभयतश्चोभयगुणत्वादिति लक्षणोदेशः ॥ ३४ ॥ परिप्लवः सर्वतः प्लावितः संश्च स्नहभाविते काये स्नेहाक्तभाजनस्थं सोद्र यथा न तद भाजने सज्जते तथा असज्जन् प्रवणभावात् प्लावनखादामाशयमुपेत्य उदानप्रणुनः सन्न निवाय्वात्मकखादृद्ध भागप्रेरणप्रभावादौषधस्योद्ध मुद्भिद्यते। प्रवणेति गुप्लु गतौ धातू। सन्तरणादिगतिविशेषार्थ वात् प्रवणं प्लवनमित्येकोऽर्थः। सलिलेत्यादि। एवं सलिलपृथिव्यात्मकलादधोभागप्रेरणप्रभावादौषधस्याधः प्रवर्तत इति। पूर्व वदोषसङ्घात उष्णतीक्ष्णादिगुणेविरेचनद्रव्यैः स्ववीयेणामाशयमुपेत्य धमनीरनुसृत्य सम्यगयुक्त्या स्रोतोभ्यो विष्यन्यते केवलशरीरगतः। तैपण्याद् विच्छिद्यते। स विच्छिन्नः परिप्लवः स्नेहभाविते काये स्नेहाक्तभाजनस्थक्षौद्रमिवासज्जन् प्रवणभावादामाशयमागम्यापानप्रणुन्न औषधस्य सलिलपृथिव्यात्मकखादधोभागप्रेरणप्रभावादधः प्रवर्तते। ऊद्ध ज्वलनखादग्नेः विच्छिन्दन्ति छिन कुर्वन्ति । परिप्लव इतस्ततो गच्छन्, असजन्निति न क्वचिदपि सङ्गं गच्छन्, अणुप्रवणभावादिति अणुस्वात् प्रवणभावाच्च, प्रवणत्वमिह कोष्ठगमनोन्मुखत्वम्, अणुत्वञ्च अणुमार्गसञ्चारित्वम्, उदानप्रणुन इति उदानवायुप्रेरितः, अग्निवाय्वात्मकत्वादिति अग्निवायूत्कषवस्वात्, ऊर्द्धभागप्रभावादिति ऊद्ध भागदोषहरत्वरूपप्रभावात् । एवं सलिलपृथिव्यात्मकत्वमपि व्याख्येयम् । उभयतश्चेति ऊर्द्ध मधश्च क्षिप्यत इत्यर्थः, उभयगुणत्वादिति अग्निवारवात्मकत्वात् सलिलपृथिव्यात्मकत्वादूधिोभागप्रभावाच्चेत्यर्थः । इति लक्षणोद्देश इति अनन्तरग्रन्थेन वमनविरेचनतद्रव्यस्वरूपाभिधानं कृतमित्यर्थः । अत्र च प्रकरणे सामान्येनैव वमनविरेचनद्रव्याणां "आम्नेयत्वाद् विष्यन्दयन्ति" इत्यनेनाग्नेयत्वं प्रतिपादितम्, पुनश्च विशेषेण 'अग्निवारयात्मकस्वाद' इति पदेन वमनद्रव्यस्यान्यात्मकरवं प्रतिपाद्यते, तेन, सामान्ये विशेषे च वमनद्रव्याणामाग्नेय स्वप्रतिपादनात् प्रकृष्टमाग्नेयत्वं भवति, विरेचनद्रव्याणान्तु सामान्योक्ताग्नेयत्वसम्बन्धात् विशेषगुण. कयन प्रस्तावे च सलिलपृथिव्यात्मकत्वाभिधानात् वमनद्रव्यापेक्षयापकृष्टमाग्नेयत्वं भवति, तथाहि सुश्रतेऽपि वमनविरेचनयोरप्याग्नेयत्वम्, "लघुत्वसूक्ष्मतीक्ष्णोष्णविकाशित्वविरेचनम् । वमनञ्च हरेद दोषान् प्रकृत्या कृतमन्यथा" इत्यनेन, यच्चानोच्यते-वमनं यदि ऊर्द्धभागहरत्वप्रभावादूर्द्ध यति, तदाऽग्निवाय्वात्मकत्वादिति हेतुवर्णनं न युज्यते, यतः, यत् सोपपत्ति कार्यम्, न तत् प्रभावकृतमिति व्यपदिश्यते, उक्तं हि-"प्रभावोऽचिन्त्य उच्यते” इति, तन्त्र ;
For Private and Personal Use Only