________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः]
कल्पस्थानम् ।
३५२१ तत्र दोषहरणमईभागं वमनसंज्ञकमधोभागं विरेचनसंज्ञकमुभयं वा शरीरमलविरेचनाद् विरेचनशब्द लभते । तत्रोष्णतीक्ष्णश्लक्षणसूक्ष्मव्यवायिविकाशीन्यौषधानिस्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य सम्यगयुक्त्यानुस्रोतोभ्यः केवलं शरारगतं दोषसङ्घातमाग्नेयत्वाद् विष्यन्दयन्ति, तैपण्याद विच्छिन्दन्ति। स विच्छिन्नः परिप्लवः स्नेहभावित काये स्नेहाक्त
गङ्गाधरः-ननु किं वमनं किश्च विरेचनमित्यत आह-तत्रेत्यादि। ऊर्द्ध भागं दोपहरणमिह वमनसंशकमधोभागं दोषहरणञ्चेह विरेचनसंज्ञकं भवति। वहि षड़ विरेचनशतानीति यदुक्तं तत् किमधोभागं दोषहरणान्येव षट् शतानि भवन्तीत्यत आह-उभयं वेत्यादि । उभयं वमनविरेचनं वा उभय भागं वा दोषहरणं विरेचनसंच भवति। तेन वमनविरेचनानि षट्शतानीत्यभिप्रायेणोक्तं षड़ विरेचनशतानि भवन्तीति। तर्हि शीर्षविरेचनमपि किं न विरेचनमित्यत आह-शरीरेत्यादि । शरीरमलविरेचनादिह विरेचनशब्दं यथा वमनविरेचनं लभते तथा शीर्षविरेचनास्थापनादिकं विरेचनशब्द लभते इति उभयभागं दोषहरणादिति नोक्त्वा शरीरमलेत्युक्तम्। मदनफलादिकं कुतो हेतोरूद्ध भागं दोषं हरति त्रितादिकन्वधोभागमित्यत आहतत्रोष्णेत्यादि। उष्णादिगुणान्यौषधानि मदनफलादीनि आग्नेयवाद विष्यन्दयन्ति, तक्ष्ण्याद् विच्छिन्दन्ति। स दोषसङ्घातः विच्छिन्नः सन्
चक्रपाणि:-वमनविरेचनशब्दार्थ विभजते-तत्रेत्यादि । जई मुखन दोषनिर्हरणं भजते इस्यूद भागम्, अधो गुदेन दोषनिहरणं भजत इत्यधोभागम्। वमनविरेचनयोरपि कदाचिद् विरेचनसंज्ञां षड्विरेचनशताश्रितीयोकां दर्शयन्नाह- उभयमपीत्यादि। न च सति वमनविरेचनवनिरूडेऽपि विरेचनसंज्ञाप्रसक्तिः सम्भावनीया, यतः पङ्कजशब्दवदियं विरेचनसंज्ञा वमनविरेचनयोरपि योगरूड्या वर्तते । सम्प्रति द्वयोरपि वमनविरेचनद्रव्ययोः साधारणोष्णतीक्ष्णत्वादिगुणयोगकृतदोषविष्यन्दनादि साधारणकार्यदर्शनपूर्वकमग्निवारयात्मकत्वादिविशिष्टधर्मयोगादिकृतं विशिष्ट कार्य वमनविरेचनं दर्शयन्नाह-ततोष्णेत्यादि। उष्णमिति उष्णवीर्यम्, स्ववीर्येणेति स्वप्रभावेण, धमनीरनुसृत्येत सकलदेहगतधमनीरनुसृत्य, सकलदेहगत. मा यनुसरण वीर्येण शेयम्, न साक्षात् ; आग्नेयत्वाद विष्यन्दयन्तीति विलीनं कुन्दन्तीति,
For Private and Personal Use Only