________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[मदनकल्प:
३५२०
चरक-संहिता। अथ खलु वमनविरेचनार्थ मदनफलादित्रिवृतादीनां वमनविरेचनद्रव्याणां मुखोपभोग्यतमैः सहान्यैव्यैर्विविधैस्तद्योगानां क्रियाविधेः सुखोपायस्य सम्यगुपकल्पनार्थ कल्पस्थानमखिलेनोपदेयामोऽग्निवेश ॥२॥
गङ्गाधरः-कल्पस्थानोपदेशे प्रयोजनमाह-अथ खल्वित्यादि। प्रथमा. ध्याये दीर्घजीवितीये मूलिन्यस्तिस्रः शणपुष्पीविम्वीहेमवत्यः फलिग्यश्चाष्टौ धामागे वेक्ष्वाकुजीमृतकृतवेधनमदनकुटजत्रपुषहस्तिपर्णिन्यो वमनार्थ द्रव्याप्युक्ताः, तथा विरेचनार्थ मूलिन्य एकादश हस्तिदन्तीश्यामात्रिदधोगुडासप्तला. प्रत्यकश्रेणीगवाक्षीविषाणिकाऽजगन्धाद्रवन्तीक्षीरिण्यः फलिन्यश्च दश शकिनीविद्विविधक्लीतक-प्रकीर्योदकीर्यान्तःकोटरपुष्पी- हस्तिपर्णी- कम्पिल्लकारगवधा उक्तास्तेषु मध्ये मदनफलादीनां वमनद्रव्याणां त्रिवृतादीमां विरेचनद्रव्याणां क्रियाविधौ सुखकरवात् षड़ विरेचनशताश्रितीयोक्तानां षण्णां शतानां योगानां मुखोपभोग्यतमैरन्यैर्विविधैव्यैः सह योगेन सम्यगुपकल्पनार्थ कल्पस्थानमखिलेनोपदेक्ष्यामो न खितरेषां धमनविरेचनमूलिनीफलिनीद्रव्याणां सम्यगुपकल्पनार्थ तथाविधमुखवमनविरेचनकरलाभावादिति ॥२॥
चक्रपाणिः-कल्पार्थं दर्शयशाह-अथ खल्वित्यादि ।-अथशब्दः प्राक्प्रस्तुते ; खलुशब्दः प्रकाशने ; वमनविरेचना मिति वमननिमित्तं विरेचननिमित्तच ; वमनविरेचनद्रव्याणामिति मदनफलादितिवृदादीनाम्, अन्यैरिति सुरासौवीरकादेयः कोविदारादिप्रकारैश्च, भन्यैरिस्यस्य विशेषणम्-'सुखोपभोग्यतमः' इति ; अस सुखायोपभोगो येषां ते सुखोपभोगाः ; तेन तदास्व. सुख उपभोगो येषां ते सुखोपभोगाः ; तथाहि तदात्वसुखोपभोगानां कोविदारादीनां ग्रहणं स्यात् । कल्पनार्थमिति यदस्य क्रियया सम्बन्धमदर्शयित्वैव भवितुमकारि, तमाख्यानप्रत्ययनायें व्याकरोति-भेदार्थ विभागार्थम्चेत्यर्थ इति ; तत्र भेदार्थमिति वमनविरेचनद्रव्यप्रयोगभेदार्थम्, ते व प्रयोगभेदाः 'त्रिंशत्योगशतं मदनफलेषु' इत्यादिकाः। विभागार्थमिति 'अत फलपिप्पीना द्वौ भागौ कोविदारकषायेण' इत्यादिवक्ष्यमाणद्रव्यविभागार्थम् । उपोद्घातं समाप्य प्रकृतमाह। तढयोगानामिति वमनविरेचनद्रव्यप्रयोगाणाम् ; क्रियाया इतिकर्तव्यताया विधिः क्रियाविधिः स्वरसादिरूपतया करणानीति यावत् ; तस्य क्रियाविधेर्विशेषणम्-'सुखोपायस्य' इति, सुखार्थः सुखो का उपायो यस्य स सुखोपायस्तस्य ; क्रियाविधः सम्यगुपकल्पनार्थमिति सम्यग उपदेशार्थम् ॥२॥
For Private and Personal Use Only