________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता
कल्पस्थानम्।
प्रथमोऽध्यायः।
अथातो मदनकल्पं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ गङ्गाधरः-अथ स्थानोद्देशक्रमात् चिकित्सितस्थानानन्तरं कल्पस्थानं व्याख्यातव्यम्। तत्राध्यायोद्देशानुक्रमात् प्रथमं मदनफलकल्पमाह-अथात इत्यादि। सर्व पूर्ववद व्याख्येयम् ॥१॥
चक्रपाणिः-चिकित्सितस्थाने तु तत्र तत्र विहितवमनविरेचनयोः प्रयोगान् विस्तरेणाभिधातु चिकित्साधिकृतयोगस्थानरूपकल्पस्थानमुच्यते। यद्यपि चिकित्सायां वस्तेरपि प्रतिपादितस्वात् वस्यभिधायकं सिद्रिस्थानमपि चिकित्साङ्गतयाभिधातव्यम्, तथापि पञ्चकर्मणामौत्सर्गिकप्रवृत्तौ वमनविरेचनपूर्विकैव वस्तिकर्मप्रवृत्तिर्भवतीति कृत्वा वमनविरेचनाभिधायकं कल्पस्थानमेव वस्त्यभिधायकसिद्धिस्थानादप्रेऽभिधीयते। वमनविरेचनानां कल्पस्तिष्ठत्यस्मिन्निति कल्पस्थानम् ; कल्पाभिधानेऽपि विरेचनस्यौत्सर्गिकप्रवृत्तौ वमनपूर्चिकैव प्रवृत्तिर्भवतीति विरेचनात् वमनस्य पूर्घत्वात् वमनकल्पा एवामेऽभिधातव्याः; वमनकल्पेष्वपि वमनद्रव्यश्रेष्ठत्वान्मदनफलस्यैवादौ कल्पोऽभिधीयते, श्रेष्ठत्वञ्च मदनफलस्य, “वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षतेऽनपायित्वात्" इत्यनेनाऽत्रव वक्ष्यति ॥१॥
For Private and Personal Use Only