________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५१८ ___ चरक-संहिता। योनिव्यापञ्चिकित्सितम्
चिकित्सा चापि निर्दिष्टा दोषाणां गूढचारिणाम् । योनिव्यापदिकेऽध्याये पुनर्वसुनिदर्शिता ॥ यस्तु सम्यङ् न जानाति शास्त्र शास्त्रार्थमेव च।
न कुर्यात् स क्रियां चित्रमचक्षरिव चित्रकृत् ॥ १२६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने योनिव्यापचिकित्सितं नाम
त्रिंशोऽध्यायः ॥ ३०॥ गङ्गाधरः-अध्यायार्थमुपसंहरति-भवन्ति चात्रेत्यादि। विंशतिरित्यादि। स्पष्टार्थाः श्लोका एते ॥ १२६ ॥
गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते। अप्राप्ते तु दृढ़बल-प्रतिसंस्कृत एव च। योनिब्यापदिके त्रिंशेऽध्याये चैव चिकित्सिते। वैद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः। चिकित्सितस्थानजल्पे षष्ठस्कन्धे चिकित्सिते। योनिव्यापदिकाध्याय-जल्पाख्या त्रिंश्युदीरिता। इति चिकित्सितस्थानं षष्ठं समाप्तम्, जल्पश्च
तस्य समाप्त इति ॥ ३० ॥ भवति तद् दोषादिक्ष यस्य व्याधिवृद्धिजनकत्वात् तद्विपरीतमेव भवेत्। तत्र.....इति कर्तव्या। किन्तु तत्क्षयस्तेन क्षये दोषादिसमानमेव विपरीतमिति न कश्चिद् दोषः ॥ ११६-.१२६॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्य्यटीकायां चिकित्सितस्थानव्याख्यायां योनिव्यापचिकित्सितं
नाम त्रिंशोऽध्यायः ॥३०॥ त्रिंशदध्याये श्लोकसंख्या ५४६१ ॥ समाप्तमिदं षष्ठं चिकित्सितस्थानम् ॥
॥ श्रीः ॥
For Private and Personal Use Only