________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः ]
चिकित्सितस्थानम् ।
मनसो वानुकूलत्वात् तुष्टिरुर्जा रुचिबलम् । सुखोपभोगता च स्याद् व्याधेश्चातो बलक्षयः ॥ लौल्याद् दोषचयाद् व्याधि- वैधम्र्म्याद वापि याऽरुचिः । तासु पथ्योपचारः स्याद् योगेनाद्य विकल्पयेत् ॥ १२५ ॥ भवन्ति चात्र श्लोकाः । विंशतिर्व्यापदो योनेर्निदानं लिङ्गमेव च । चिकित्सा चापि निर्दिष्टा शिष्याणां हितकाम्यया ॥ शुक्रदोषास्तथा चाष्टौ निदानाकृतिभेषजः । क्लेव्यान्युक्तानि चत्वारि चत्वारः प्रदास्तथा ॥ तैषां निदानं लिङ्गञ्च भैषज्यञ्चैव कीर्त्तितम् । चीरदोषास्तथा चाष्टौ दोषाकृतिभिषग्जितैः ॥ रेतसो रजसश्चैव कीर्त्तितं शुद्धिलचणम् । उक्तानुक्तचिकित्सा च सम्यग्योगस्तथैव हि ॥ देशादिगुणयोगाश्च कालः षड् विध एव च । देशे देशे च यत् सात्म्यं यथा वैद्योऽपराध्यति ॥
३५१७
द्वेष्यत्वं स्वादुखाभावाच यदि द्वेष्यत्खमागच्छेत् तदा तैस्तः स्वादुकरः कल्पनाविधिभिः पुनस्तदेव द्वेष्यत्वगतं पथ्यं प्रियत्वं गमयेत् नयेत् । किमर्थमित्यत आह-मनस इत्यादि । मनसो वानुकूललादूर्जा तुष्टिश्च बलश्च सुखोपभोगता च स्यात् । अतो व्याधेश्च बलक्षयः स्यात् । लौल्यादित्यादि । मनसो लौल्याचाञ्चल्यात् दोषक्षयादपि व्याधिः स्यात्, वैधम्र्म्याद वापि या रुचि स्यात्, तासु पथ्योषचारः स्यात् । योगेनादं खादं विकल्पयेदिति ।। १२५ ।।
For Private and Personal Use Only
विपरीतमपि भेषजम विरुद्धम् । विपरीतं भेषजमुच्यते न विपरीतगुणमात्रम्, तेन विपर्यस्तार्थकारिणामपि भेषजानां ग्रहणं भवति । यत्तु समानमेव क्षीणानां दोषाणां धातूनां वा भेषजं
४४१