________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५१६
चरक-संहिता। योनिब्यापश्चिकित्सितम् एतस्मादौषधादीनि परीक्ष्य दश तत्त्वतः । कुर्य्याचिकित्सितं प्राज्ञो न योगैरेव केवलम् ॥ १२३ ॥ निवृत्तोऽपि पुनाधिः स्वल्पेनायाति हेतुना। क्षीणे मार्गीकृते दोषे शेषः सूक्ष्म इवानलः ॥ तस्मात् तमनुबध्नोयात् प्रयोगेणानपायिना। दाढाथ प्राक्प्रयुक्तस्य सिद्धस्याप्यौषधस्य तु ॥ १२४ ॥ कठिनादूनभावाच्च दोषोऽन्तःकुपितो महान् । पथ्यमृद्वल्पतां नीतो मृदुर्दोषकरो भवेत् ॥ पथ्यमप्यश्नतस्तस्माद् यो व्याधिरुपजायते। ज्ञात्वैवं वृद्धिमभ्यासमथवान्यस्य कारयेत् ॥ सातत्यात् स्वाद्वभावाच्च पथ्यं द्वष्यत्वमागतम् ।
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः ॥ तथा सति द्रव्येषु विदग्धेषु तेषु चैवं विक्रिया विपरीतक्रिया। एतस्माद्धेतो. रौषधादीनि दश प्रागुक्तानि विमाने तत्त्वतः परीक्ष्य प्राशचिकित्सितं कुर्य्या, न केवलं योगैरिति ॥ १२३॥
गङ्गाधरः-निवृत्त इत्यादि। निवृत्तो व्याधिः स्वल्पेनापि हेतुना पुनरायाति। निवृत्तो रोगः कस्मात् पुनरायाति तत्राह। दोषे मार्गीकृते सति क्षीणेऽपि शेषो वर्त्तते सूक्ष्मोऽनल इव। तस्मात् तं निवृत्तदोषं पुमांसम् अनपायिना प्रयोगेणानुबनीयाचिरमुपाचरेत् । किमर्थमित्यत आह-दाार्थ मामयुक्तस्य सिद्धस्यौषधस्य येनौषधेन व्याधिनिवृत्तोऽभूत्। तस्य सिद्धेर्दाार्थमनपायिना प्रयोगेणानुबन्नीयात् चिरमाचरेत् ।। १२४ ॥ ..
गङ्गाधरः-कठिनेत्यादि। कठिनादूनभावाच अन्तःकुपितो महान् दोषो हि पथ्य द्वल्पतां नीतो मृदुरपि दोषकरो भवेत्। तस्मात् पथ्यमप्यश्नतो जनस्य यो व्याधिरुपजायते, तस्यैवं वृद्धिं झाखान्यस्य पथ्यस्याभ्यासं कारयेत् । तत्र पथ्यद्वेषे कर्त्तव्यमाह- सातत्यादित्यादि। पथ्यं सततप्रयोगात् यदि दोषादीनां व्यस्तसमस्तानां ग्रहणात् दोपदूष्यसमुदायात्मा ब्याधिरपि लभ्यते, सेन व्याधि
For Private and Personal Use Only