________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः]
कल्पस्थानम्। धवतिनिशशल्लकीशालसोमबल्कबदरीतिन्दुकाश्वत्थवटामलकोवनगहनः अनेकशमीककुभशिंशपाप्रायः स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटपः प्रततमृगतृष्णाकूपोपगूढस्तनुखरपरुषसिकताशर्कराबहुलः लावतित्तिरिचकोरानुप्रचितभूमिभागो वातपित्तबहुलः स्थिरकठिनमनुष्यप्रायो ज्ञयः॥७॥ . अथानूपो हिन्तालतमालनारिकेलकदलोवनगहनः सरित्समुद्रपर्य्यन्तप्रायः शिशिरपवनबहुलो वज़ुलवनवानीरोपशोभिततीराभिः सरिद्भिपगतभूमिभागः अक्षितिधरनिकुञ्जोपशोभितो मन्दपवनानुवीजितक्षितिरुहगहनोऽनेकवनराजीपुष्पितवनगहनभूमिभागः स्निग्धतरुप्रतानोपगूढो हंसचक्रवाकबलाकानन्दीमुखपुण्डरीककादम्बमद्गुकोयष्टिभृहराजशतपत्रमत्तकोकिलानुनादित तरुणविटपः सुकुमारपुरुषः पवनकफप्रायो ज्ञयः॥८॥
अनयोरेव द्वयोदेशयोर्वीरुदवनस्पतिवानस्पत्यशकुनिमृगगणयुतः स्थिरसुकुमारबलसंहननोपपन्नः साधारणगुणयुक्तपुरुषः साधारणो ज्ञयः॥४॥ कदरादिभिर्वनगहनो निविड़वनः । अनेकशमीक्षादिमायः । स्थिराश्च शुष्काच पवनविध्यमानाश्च प्रनृत्यन्त इव तरुविटपा यत्र सः। प्रततमृगतृष्णाकूपगूढस्तत्र देशे तनुखरादिसिकताशराबहुलो लावादिप्रचितो भूमिभागः । वातपित्तबहुलः स्थिरादिमनुष्यपायो जालो देशो शेयः ॥७॥
गङ्गाधरः-अथेत्यादि। हिन्तालादिवनगहनः, अक्षितिधरः पर्चतहीनो निकुञ्जोपशोभितः, हंसाधनुनादिततरुणविटपः, सकुमारः मृदुकोमलशरीरादिः पुरुषो यत्र । पवनकफमायो देश आनूप उच्यते ॥८॥ ___ गङ्गाधरः-अनयोरित्यादि । अनयोरेव द्वयोर्जाङ्गलानूपयोदेशयोयें वीरुधादयस्तै यु तः। स्थिरादिभावोपपन्नाः साधारणगुणयुक्ताः पुरुषा यत्र स साधारणो देशो शेयः ॥९॥ केचिजाङ्गलादिदेशलक्षणपन्थं न पठन्ति, तत् तु जनपदोध्वंसनीये पठितमिति कृत्वेहानार्ष वदन्ति।
४४२
For Private and Personal Use Only