________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०४ अध्यायः ]
चिकित्सितस्थानम् | श्रत्यर्थस्निग्धरूक्षोष्णमम्लं कटु विपाकि च । गुरु चौषधपानान्नमेतदु बालेषु गहितम् ॥ १०६ ॥ समासात् सर्व्वरोगाणामेतद् बालेषु भेषजम् । निर्दिष्टं शास्त्रविद वैद्यः प्रविभज्य प्रयोजयेत् ॥ ११० ॥ स्तन्यदोषवालरोगौ ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३५०७
भवन्ति चात्र । इति सर्व्वविकाराणामुक्तमेतच्चिकित् सितम् । स्थानमेतद्धि तन्त्रस्य रहस्यं परमुच्यते ॥ श्रस्मिन् सप्तदशाध्यायाः कल्पाः सिद्धय एव च । नासाद्यन्तेऽग्निवेशस्य तन्त्रे चरकसंस्कृतै ॥ तानेतान् कापिलबलिः शेषान् दृढबलोऽकरोत् । तन्त्रस्यास्य महार्थस्य पूरणार्थं यथातथम् ॥ १११ ॥ ११२ ॥ गङ्गाधरः- वर्ज्यान्याह - अत्यथत्यादि । अत्यथ स्निग्धादिकं बालषु गर्हितम् । समासादित्यादि । स्पष्टम् ।। १०९ - ११२ ॥ स्तन्यदोष बालरोगौ ।
गङ्गाधर - उपसंहरति- भवन्ति चात्रेत्यादि । इतीत्यादि । इत्येतच्चिकित्सितं स्थानं सर्व्वविकाराणामुक्तम् । एतस्य तन्त्रस्य पुनरेतत् परं रहस्यमुच्यते । किं रहस्यमित्यत आह-अस्मिन्नित्यादि । अस्मिंश्चिकित्सितस्थाने शेषाः सप्तदशाध्यायाः कल्पा द्वादशाध्यायाः सिद्धयश्च द्वादशाध्याया नासाद्यन्ते चरकप्रति - संस्कृतेऽग्निवेशतन्त्रेऽधुना न प्राप्यन्ते, केवलाग्निवेशतन्त्रे तु प्राप्यन्ते । तान् अग्निवैशतन्त्रोक्तान् एतानध्यायान् चिकित्सितस्थाने सप्तदशाध्यायान् शेषान् कापिलबलिः कपिलबलस्यापत्यं दृढ़बलोऽकरोत् प्रतिसंस्कृतानकरोत् ।। १११ । ११२ ।। - प्रयोजयेदिति योजनीयम् । मधुराणीत्यादिना बालेषु कर्त्तव्यं भेषजमाह । अत्यर्थमित्यादि । - बालेषु निषिद्धभेषजमाह । शास्त्रविद बैद्यः प्रविविच्य निर्दिष्टं प्रयोजयेदिति ॥ १००-११०॥ चक्रपाणिः सर्वविकाराणां चिकित्सास्थानोक्तम् उपसंगृह्णाति ।
सर्व्वविकाराणामिति
वचनेन अनुक्तानामपि विकाराणामेतत् चिकित्सावीजसूखमिति दर्शयति । रहस्यपदेन न कस्मैचित् पापिष्ठाय प्रकाशनीयमिति द्योतयति । सम्प्रति दृढ़बलः स्वकीयस्थानविषयं दर्शयन्नाहअस्मिन्नित्यादि । सप्तदशाध्याया इति चिकित्सास्थाने सप्तदशाध्यायान्ते यक्ष्म चिकित्सितान्तान् अष्टौ अध्यायान् तथा अतीसारावसर्प द्वित्रणीयमदात्मयोक्तान् परिशिष्ट संस्कारस्य दृष्ट्वा अतिशय - सम्पादकत्वादात्मनो निर्दिष्टविषयमेव दर्शय शाह- सम्वस्यास्येत्यादि ॥ १११ ॥ ११२ ॥