________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०८
चरक-संहिता। योनिव्यापश्चिकित्सितम् रोगा येऽप्यत्र नोदिष्टा बहुत्वान्नामरूपतः । तेषामप्येतदेव स्याद् दोषादोन् वीक्ष्य भेषजम् ॥ दोषदृष्यनिदानानां विपरीतं हितं ध्रुवम् । उक्तानुक्तान् गदान् सर्वान् सम्यग् युक्तं नियच्छति ।। देशकालप्रमाणानां सात्म्यासात्म्यस्य चैव हि ।
सम्यगयोगोऽन्यथा हेोषां पथ्यमप्यन्यथा भवेत् ॥ ११३॥ गङ्गाधरः-अनुक्तानां भेषजमाह-रोगा इत्यादि। तेषां रोगाणां दोषादिविपरीतं हितं द्रव्यं सम्यगयुक्तमुक्तानुक्तान नियच्छति । तथा देशादीनां सात्म्यासात्म्यस्य च सम्यग्योगोऽप्युक्तानुक्तान् विकारान् नियच्छति । अन्यथा सम्यगयुक्तं पथ्यमप्यन्यथाऽपथ्यं भवेत् ॥ ११३ ।।
चक्रपाणिः-सम्प्रति उक्तानुकरोगचिकित्सातिदेशार्थमाह-रोगा येऽप्यनेत्यादि । तश्चिकित्सास्थानात भेषजं तदेव हि भेषजं नामरूपादिना विशेषेणायुक्तानां सामान्यतश्च वातादिजन्यतया दोषानपेक्ष्य तथायुक्तं सत् भेषजं भवतीत्यर्थः। दोषादीनिति दोष निदानानि अप्रे वक्ष्यमाणानि, किंवा दोषभेषजदेशकालशरीरसत्त्वप्रकृतिवयांसि सूत्रस्थानोक्तानि । अथ कथमेतट भेषजम् अनुक्तानां गदानां भेषजं भवतीत्याह-दोषदृष्येत्यादि। दोषा वातादयः, दूष्याणि रकादीनि, निदानानि रूक्षादीनि, एषां विपरीतं भेषजं हितमिति । ततः सम्यग युकं सत् उतानुक्तगदान ध्रुवं नियच्छति। उक्तानि नामरूपादीनि, अनुक्तानि नामरूपादिविशेषेण भनुका ये तानि। एतेन यदैव दोषादिविपरीततया प्रतिपादितं भेषज तदेव अनुक्कानां गदानां बोषादिसमत्वं बुद्धा भेषजं योज्यमिति ज्ञेयम् । यद्यपि च निदानविपरीतं भेषजं तदोषविपरीतेनंष ग्रहीतुपायंते, यतो निदानेषु दोषप्रकोपः क्रियते, तस्य च दोषाद विपरीतं यत् यथारूक्षनिदानवृद्ध वायौ रूक्षस्य विपरीता स्नेहाः स निदानविपरीत एव, तथापि दोषस्यैव वैपरीत्येन भेषजप्रयोगोप. दर्शनार्थ निदानविपरीतोपादाममिह यथायथं संयोजनीयम् । अथ दोषादिविपरीतं सम्यगयोगेन यद् गदान नियच्छतीयुक्तं ततो थेन सम्यग्योगेन कालगृहीतपक्षसव्यपक्षसम्यगयोगेनैव कृतम् । तमेव सम्यगयोगमाह-देशकालेत्यादि । येषान्तु देशाद्यपेक्षया योगानामुदाहरणानि आचार्येणैव दत्तानि आस्यादामाशयस्थानित्यादिना खिदोषञ्च बह्वपीत्यन्तेन । तत्रेह देशः आतुरस्यवोक्तः भूमिः। इदानीं तदोषादिभिस्तव अस्यौषधकालो दविधः। प्रमाणमौषधस्य निविधम अल्पं बहु समक्ष । समञ्च द्विविधं देशशरीरयोः। असात्म्यं उक्तसाम्यविपरीतम्। सम्यगयोगो यथावत् प्रयोगः । विपर्यये दोषमाह। अन्यथा हेवां पथ्यमपि अन्यथा भवेत् । एषां दोषादीना........ भेषजं दोषादिविपरीतमपि अन्यथेति अपथ्यं भवति । यानि चापराणि बलसत्त्वादीनि दशविघदोषाधन्तर. गतानि नेहोकानि तानि दोषादिष्यन्वर्भवनीयानि ॥ १३॥
For Private and Personal Use Only