________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०६
चरक-संहिता। योनिब्यापश्चिकित्सितम अष्टावेते क्षीरदोषा हेतुलक्षणभेषजैः। निर्दिष्टाः क्षीरदोषोत्थास्तत्रोक्ताः केचिदामयाः॥ १०७॥ दोषदृष्या मलाश्चैव महतां ये तथामयाः। त एव सव्वें बालानां मात्रा त्वल्पतरा मता॥ निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रता। वाक्चेष्टयोश्च सामथ्यं वीक्ष्य बालेषु शास्त्रवित् ॥ भेषजं चाल्पमात्रन्तु यथाव्याधि प्रयोजयेत्।
मधुराणि कषायाणि क्षीरवन्ति मृदनि च ॥ १०८॥ बलादिभिः स्तनौ लेपयत्। पृश्निपर्णीत्यादि। पृश्निपादिभ्यां द्वाभ्यामस्याः गुरुक्षीरायाः स्तनौ प्रलेपयेदिति ॥ १०६॥ __गङ्गाधरः-अष्टावित्यादिना क्षीरदोषहेतुखादुपसंहारः। प्रसङ्गाद बालस्य. चिकित्सामाह-निर्दिष्टा इत्यादि। तत्र क्षीरदोषोत्था ये केचिदामया निर्दिष्टास्तथा महतां युववृद्धानां ये दोषदृष्या आमयाश्च निर्दिष्टास्त एव सर्वे रोगा ते च योगा बालानां विधीयन्ते तत्र मात्रा खल्पतरा मता। यथावयो बालकानां मात्रा विधेया। निवृत्तिरित्यादि । तत्र वमनादीनां संशोधनानां बालेषु निवृत्तिः, कस्मात् ? यतो मृदुत्वं परतन्त्रता च बालानामिति । वागित्यादि । वाकचेष्टयो सामर्थ्य वीक्ष्य बालेषु यथाव्याधि भेषजमल्पमात्र प्रयोजयेत्। मधुराणि कषायाणि क्षीरवन्ति मृदूनि च प्रयोजयेत् ॥ १०७ । १०८॥
चक्रपाणिः-पूर्ववत् जीवकाद्यमित्यत जीवकाद्य जीवनीयम्। एवं दुष्टक्षीरे उत्पन्न वातविकारागां रूपं दर्शयित्वा यथाकर्त्तव्यं भेषजमाह । दोषा वातादयः। दूष्याणि रतादीनि । मलाः मूत्रस्वेदादयः। एते दोषादयो महतामिव बालानामपि भवन्ति । किन्तु तेषां दोषादीनां मावा तु अल्पतरा इति विशेषः । तेन दोषादिमाखापेक्षया भेषजमावाप्यल्पा भवतीति भावः । निवृत्तिर्वमनादीनामित्यादि। द्विविधा बाला भवन्ति स्वतन्त्रवृत्तयः परतन्तवृत्तयश्च । वस परतन्त्रवतां बालानां वमनादीनां निवृत्तिः करध्या, वाकचेष्टयोश्च बालकस्य सामर्थ्य वोक्ष्य स्वतन्त्राणां वमनादीनां मृदुत्वं शास्त्रविद् वैद्यः प्रयोजयेत्। तथा संशमनमपि भेषजम् अपमानं यथाव्याधि प्रयोजयेत्। किंवा बालेषु मृडतां परतन्त्रताश्च वीक्ष्य क्मनादीनां निवृत्तिर्वि धावस्या। वावचेष्टय श्च बाहेषु सामर्थ्य वीक्ष्य संशमनं भेषजमल्पमातं यथास्याधि
For Private and Personal Use Only