________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३.श भध्यायः
चिकित्सितस्थानम्। ३५०५ लिह्याद वाप्यभयाचूर्ण सव्योषं माक्षिकप्लुतम् । चोरदोर्गन्धानाशार्थ धात्री पथ्याशिनो तथा ॥ सारिवोशीरमञ्जिष्ठा-श्लेष्मातेर्वा सचन्दनैः। पत्राम्बुचन्दनोशौरैः स्तनौ चास्याः प्रलेपयेत् ॥ १०३ ॥ स्निग्धक्षोरा दारु मुस्तं पाठां पिष्टा सुखाम्ना। पीत्वा ससन्धवं क्षिप्रक्षोरशुद्धिमवाप्नुयात् ॥ १०४ ॥ पाययेत् पिच्छिलतीरां शाङ्गेष्टामभयां वचाम् । मुस्तनागरपाठाश्च पीताः स्तन्यविशोधनाः ॥ तकारिष्टं पिबच्चापि अर्शसां यन्निदर्शितम् । विदारीबिल्वमधुकैः स्तनौ चास्याः प्रलेपयेत् ॥ १०५ ॥ त्रायमाणामृतानिम्ब-पटोलत्रिफलाकृतम्। गुरुक्षीरा पिबेदेतत् स्तन्यदोषविशुद्धये। पिबेद वा पिप्पलीमूल-चव्यचित्रकनागरम् ।।
बलानागरशाङ्गेष्टा-मूर्वाभिलेपयेत् स्तनौ। • पृश्निपर्णीपयस्याभ्यां स्तनौ चास्याः प्रलेपयेत् ॥ १०६ ॥ लिखाद वेत्यादि । स्पष्टार्थम् । सारिवेत्यादि । अस्या दुर्गन्धिक्षीरायाः स्तनौ सचन्दनैः सारिवादिभिः प्रलेपयेत्। अथवा सचन्दनैः पत्रादिभिवों स्तनो प्रलेपयेत् ॥ १०३॥
गङ्गाधरः-स्निग्धेत्यादि । ससैन्धवं दा दिकं सुखाम्बुना पिष्ट्वा पीला स्निग्धक्षीरा नारी क्षीरशुद्धिमवाप्नुयात् ॥ १०४॥
गङ्गाधरः-पाययेदित्यादि। शाङ्गेष्ठा काकजङ्घा, शाङ्गष्ठामभयां वा वर्चा वा पाययेत्। मुस्तादिकाः पीताः। तक्रारिष्टं वाप्यौनिर्दिष्टं पिबेत् पिच्छिलक्षीरा नारी। विदारीप्रभृतिभिः पिष्टैरस्याः पिच्छिलक्षीरायाः स्तनौ प्रलेपयेत् ॥ १०५॥ .. गङ्गाधरः-त्रायमाणेत्यादि। गुरुक्षीरा नारी त्रायमाणादिभृतं कार्य पिबेत् । पिबेट वेत्यादि। पिप्पलीमूलादि नागरान्तं कथितं पिबेद वा।
For Private and Personal Use Only