________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०४
चरक-संहिता। योनिब्यापचिकित्सितम् किराततिक्तकं शुण्ठी सामृता काथयेद् भिषक् । तं क्वाथं पाययेद धात्रीं स्तन्यदोषनिबर्हणम् ॥ स्तनौ चालेपयेत् पिष्टैर्यवगोधूमसर्षपैः। डिरेकाश्रितीयोक्तरोषधः स्तन्यशोधनः ॥१०॥ रूक्षक्षीरा पिबेत् क्षीरं तैर्वा सिद्धं घृतं पिबेत् । पूर्ववजीवकाद्यञ्च पञ्चमूलञ्च लेपनम् ॥ श्लक्ष्णं पिष्टा जलेनैव लेपनं भिषजा स्त्रियाः। स्तनयोः संविधातव्यं सुखोष्णं स्तन्यशोधनम् ॥ १०१॥ यष्टीमधुकमृद्वीका-पयस्यासिन्धुवारिका। शीताम्बुना पिबेत् कल्कं क्षीरवैवर्ण्यनाशनम् । द्राक्षामधुककल्केन स्तनौ चास्याः प्रलेपयेत् । प्रक्षाल्य वारिणा चैव निर्दह्यात् तो पुनःपुनः ॥ १०२ ॥ विषाणिकाजशृङ्गयौ च त्रिफलां रजनों वचाम् ।
पिबेत् क्षीराम्बुना पिष्ट्रा क्षीरदोर्गन्धानाशनम् ॥ किरातेत्यादि । किराततिक्तकादीनां काथं कृता तं पाययेत् । स्तनावित्यादि। यवादिभिश्च पिष्टः स्तनावालेपयेदित्येको योगः। षड्विरेत्यादि । षड्विरेकशताश्रितीयोक्तैः स्तन्यविशोधनदेशभिः ॥१०० ।। - गङ्गाधरः-रूक्षेत्यादि । शृतं क्षीर रूक्षक्षीरा स्त्री पिबेत् । तैः सिद्धं घृतं वा पिबेत् । पूच्चवदित्यादि। जीवका दशकं पञ्चमूलञ्च वृहत् पूववदालेपनं सुखोष्णं स्तनयोः कृता शुष्कीभावे प्रक्षाल्य निदोहनं विधातव्यमिति ॥१०॥ --गङ्गाधरः-यष्टीत्यादि। पयस्या क्षीरकाकोली, सिन्धुवारिका निर्गुण्डी। एषां कल्क शीताम्बना पिबेत् । द्राक्षेत्यादि । अस्या विवर्णक्षीराया धात्राः द्राक्षाकल्केन स्तनौ लिप्सा शुष्को वारिणा प्रक्षाल्य निदुःह्यादेवं पुनःपुनः॥१०२॥ - गङ्गाधरः-विषाणिकेत्यादि। विषाणिकादिकं क्षीराम्बना मिलितेन पिष्ट्वा पिवेत्। अजशृङ्गी द्विधा विषाणी चाजशृङ्गी च तस्माद भागद्वयम् ।
For Private and Personal Use Only