________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३० अध्याय:]
३० अध्यायः] चिकित्सितस्थानम् । ३५०३
अमृतासप्तपर्णत्वक-काथञ्चैव सनागरम् । किराततिक्तककाथं श्लोकपादेरितान् पिबेत् ॥ त्रीनेतान् स्तन्यशुद्धार्थमिति सामान्यभेषजम् । कीर्तितं स्तन्यदोषाणां पृथगन्यन्निबोध मे ॥१७॥ पाययेद् द्विरसक्षीरा द्राक्षामधुकशारिवाः। श्लक्ष्णपिष्टां पयस्याञ्च समालोड्य सुखाम्बुना। स्तन्यसंशोधनार्थन्तु धात्रोन्तु पाययेद् भिषक् ॥८॥ पञ्चकोलकुलत्थैश्च पिष्टैरालेपयेत् स्तनौ। शुष्कौ प्रक्षाल्य निर्दह्यात् तथा स्तन्यं विशुध्यति ॥ ६ ॥ फेनसातवत् क्षीरं यस्यास्तां पाययेत् स्त्रियम् । पाठानागरशाङ्गेष्टा-मूर्वाः पिष्टा सुखाम्बुना ॥ अञ्जनं नागरं दारु-बिल्वमूलप्रियङ्गवः। स्तनयोः पूर्ववत् काय्य लेपनं क्षीरशोधनम् ॥ गङ्गाधरः-अमृतेत्यादि। श्लोकस्यास्य पादत्रयेण त्रीन् योगान् पिबेत् । अमृता सप्तपर्णवक कल्कीकृत्य जलेन पेया। इत्येकः। सनागरं तयोः कायश्च पिबेदिति द्वितीयः। किराततिक्तकाथं पिबेदिति तृतीयः ॥९७॥
गङ्गाधरः-इति सामान्यभेषजं स्तन्यदोषस्य पृथगन्यत् शृणु। पाययेदित्यादि । द्विरसक्षीरा द्विगुणजलक्षीरा द्राक्षामधुकसारिवाः पत्त्वा शेषं क्षीरं पाययेत् । द्विगुणजलक्षीरमष्टांशद्राक्षादिकल्कं पक्त्वा पाययेत् । श्लक्ष्णेत्यादि। पयस्यां क्षीरकाकोलीं श्लक्ष्णपिष्टां मुखाम्बुना समालोड्य पाययेत् ॥९८॥
गङ्गाधरः-पञ्चेत्यादि । पञ्चकोलकुलत्थैः पिष्टैर्जलेनालिप्य स्तनौ शुष्को पुनः प्रक्षाल्य निदुःह्यानिःशेषेण दुग्धं गालयेदिति ॥ ९९॥
गङ्गाधरः-फेनेत्यादि। यस्याः स्त्रियाः फेनसङ्घातवत् क्षीरं तां पाठादिकान पिष्ट्वा मुखाम्बुना पाययेत् । शाङ्गष्टा काकजङ्घा। अञ्जनमित्यादि। अञ्जनं रसाञ्जनं प्रियङ्गचो धान्यविशेषाः। पूर्ववत् स्तनौ लिप्सा शुष्को निर्दुवात् । पक्रपाणिः- काथम्चैव सनामरम् इत्यक्ष नागरकृत एव काथो ज्ञेयः ॥ ८९-९९ ॥
For Private and Personal Use Only