________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३० अध्यायः
३० अध्यायः] चिकित्सितस्थानम् ।
कफः क्षीराशयगतो गुरुत्वात् क्षीरगौरवम् । कुर्यात् स्नेहान्वितं पोतं तद्भावात् कफरोगवान् । अन्यांश्च विविधान् रोगान् कुर्यात् क्षीरसमाश्रितान् ॥२॥ क्षीरे वातादिभिर्दुष्टे सम्भवन्ति यदात्मकाः। तत्रादौ क्षीरशुद्धार्थ धात्रों स्नेहोपपादिताम् । संस्वेद्य विधिवद वैद्यो वमनेनोपपादयेत् ॥ १३ ॥ वचाप्रियङ्गुयष्टा-कफवत्सकसर्षपैः। कल्कैनिम्बपटोलानां काथैः सलवणैर्वमेत् ॥ सम्यग्वान्तां यथान्यायं कृतसंसर्जनां ततः। दोषकालबलापेक्षी स्नेहयित्वा विरेचयेत् ॥ त्रिवृतामभयां वापि त्रिफलारससंयुताम्।।
पाययेन्मधुसंयुक्तां विरेकार्थ भिषग्वरः॥ पिच्छिलं कुरुते। तत् पिबन् शिशुालालुरित्यादिः स्यात्। कफ इत्यादि। गुवादिभिः क्रुद्धः कफः क्षीराश्रयस्तनगतः सन् गुरुवात् क्षीरस्य गौरवं कुर्यात्। स्नेहान्वितं तत् गुरु क्षोरं पीतं शिशुना तदगुरुभावात् तस्य शिशोः कफरोगा जायन्ते ये तज्जानन्यांश्च विविधान् क्षीरसमाश्रितान् रोगान् कुर्यात् ॥ ९२॥ ... गङ्गाधर-इत्यष्टौ वातादिभेदेन दोषानुक्त्वैषां चिकित्सामाह-क्षीर इत्यादि। यदात्मका ववादियदयदरूपा दोषाः सम्भवन्ति । तत्रादौ क्षीरशुद्धार्थ स्नेहोपपादितां धात्री संस्वेद्य वमनेनोपपादयेत् ॥ ९३॥
गङ्गाधरः-चचेत्यादि। स्निग्धा खिन्ना सा धात्री वचादिकल्कैयुक्तैः निम्बादिकाः सलवणैर्वमेत्, तत्र वचादिषु कफः श्लेष्मातकः। सम्यगवान्तां यथान्यायं कृतसंसर्जनां कृतपेयादिक्रमाहारां पुनः - स्नेहयित्ना दोषाधपेक्षी बंद्यो विरेचयेत् । विरेचनयोगमाह-त्रितामित्यादि। त्रिवता
४३९
For Private and Personal Use Only