________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। योनिब्यापश्चिकित्सितम पित्तमुष्णादिभिः क्रुद्धं स्तन्याश्रयमभिप्लुतम् । करोति स्तन्यवैवण्यं नीलपीतासितादिकम् ॥ विवर्णगात्रः खिन्नः स्यात् तृष्णालुभिन्नविट् शिशुः । नित्यमुष्णशरोरश्च नाभिनन्दति तं स्तनम् ॥ पूर्ववत् कुपिते पित्ते दौर्गन्ध्यं क्षीरमृच्छति । पागडामयस्तत् पिबतः कामला वा भवेच्छिशोः॥१॥ कुद्धो गुर्वादिभिः श्लेष्मा क्षीराश्रयगतः स्त्रियाः। स्नेहान्वितं वा तत् क्षीरमतिस्निग्धं करोति सः ॥ छईनः क्लेशनस्तेन लालालुर्जायते शिशुः। नित्योपदिग्धैः स्रोतोभिर्निद्राक्क्रमसमन्वितः। श्वासकासपरीतश्च प्रसेकतमकान्वितः॥ अभिभूय कफः स्तन्यं पिच्छिलं कुरुते यदा। लालालुः शूनवक्ताक्षो जड़ः स्यात् तत् पिबन् शिशुः॥
प्रकोपणैः क्रुद्धोऽनिलः क्षीराश्रयः सन् स्तन्ये स्नेहं शोषयते, ततो रूक्षं स्तन्य स्यात्, तत् पिवतो वालस्य बलहासश्च जायते। इति त्रयः स्तन्यदोषा वातजाः॥९॥ - गङ्गाधरः-पित्तजौ द्वावाह-पित्तमित्यादि। उष्णादिभिः स्वः प्रकोपणे कद्ध पित्तं स्तन्याश्रये वणेमभिप्लुतं कुम्चेत् स्तन्यवैवर्ण्य करोति नीलादि रूपम्। तत् पिरन् शिशुर्विवर्णगात्र इत्यादिः स्यात् । पूर्ववदित्यादि । पूर्ववदुष्णादिभिः स्वैः प्रकोपणैः ऋद्ध पित्ते क्षीरमृच्छति सति स्तन्ये दोर्गन्ध्यं स्यात्। तत् पिवतः शिशोः पाण्डामयः कामला वा स्यात् ॥९१॥ .. गङ्गाधरः-इति पित्तदोषौ द्वायुक्त्वा कफदोषांस्त्रीनाह-ऋद्ध इत्यादि । गुर्वादिभिः स्वः प्रकोपणैः क्र द्धः श्लेष्मा स्त्रियाः क्षीराश्रयस्तनगतः सन् तत् क्षीरं स्नेहान्वितमतिस्निग्धं वा करोति। तत् पिबन् शिशुश्छर्द्धन इत्यादिः स्यात् । अभिभूयेत्यादि। स्वः प्रकोपणैः क्रुद्धः कफः स्तन्यमभियभू
For Private and Personal Use Only