________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६८
चरक-संहिता। योनिव्यापश्चिकित्सितम् धात्रीस्तनस्तन्यसम्पदुक्ता विस्तरतः पुरा। स्तन्यसअननञ्चव स्तन्यस्य च विशोधनम् ॥ वातादिदुष्टलिङ्गञ्च क्षीणस्य च चिकित्सितम् । तत् सर्वमुक्तं ये त्वष्टौ क्षीरदोषाः प्रकीर्तिताः । वातादिष्वेव तान् विद्याच्छास्त्रचक्षुभिषग्वरः। त्रिविधास्तु यतः शिष्यास्ततो वक्ष्यामि विस्तरम् ॥ ८॥ अजीर्णासात्म्यविषम-विरुद्धात्यर्थभोजनात् । लवणाम्लकटुक्षार-प्रक्लिन्नानाञ्च सेवनात् ॥ मनःशरीरसन्तापादस्वप्नान्निशि चिन्तनात् । प्राप्तवेगप्रतीघातादप्राप्तोदीरणेन च ॥ परमान्नं गुडघृतं मत्स्यञ्च कुशरां दधि। .. . अभिष्यन्दीनि मांसानि ग्राम्यानूपौदकानि च ॥.
गङ्गाधरः-अथ स्तन्यदोषचिकित्सितमाह-धात्रीत्यादि। पुरा जातिसूत्रीये। ये खष्टौ क्षीरदोषाः प्रकीर्तिता अष्टोदरीये अष्टौ क्षीरदोषा इत्युद्देशं कुला पुनर्निर्देशः कृतः। अष्टौ क्षीरदोषा इति वैवर्ण्य वैगन्ध्यं वैरस्यं पैच्छिल्यं फेनसङ्घातो रौक्ष्यं गौरवमतिस्नेहश्चेति तानष्टौ दोषान् वातादिष्वेव दोषेषु शास्त्रचक्षभिषग्वरो विद्यात् । मध्यमोऽवरश्च भिषक तथा वेदितु न शक्रोति। शिष्या हि त्रिविधास्ततो मध्यमावरशिष्यप्रबोधनार्थ वातादिदोषक्रमेण निम्तरं वक्ष्यामि ॥ ८८॥
गङ्गाधरः-तद्यथा-अजीर्णेत्यादि। निशि अवमात्। अमाप्तवेगानां
पंचरातानुबन्धी। द्वादशरावकालस्य किं न निर्देशः ? द्वादशरातपर्यन्तं गर्भाशयस्थस्यातवस्य प्रवृत्तिरिति ज्ञेयम्। गुलाफलसवर्णमित्यादिना वर्णभेदश्वार्त्तवे प्रकृतिभेदादेव भवति ॥ ८५-८७ ॥
चक्रपाणिः-सम्प्रति प्रदरचिकित्सामभिधाय स्त्रीरोगाभिधानप्रसङ्गाद अपरमपि स्त्रीरोगं स्तन्यदोषमभिषि सुराह-धात्री स्तनस्तन्येत्यादि। त्रिविधास्तु यतो शिष्या ततो वक्ष्यामीति सिविधभेदेषु शिष्येषु मन्दबुद्धिशिष्याणां सुखप्रतिपत्त्यर्थम् ॥ ८८ ॥
For Private and Personal Use Only