________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३० अध्यायः ]]
चिकित्सितस्थानम्
३४६७ वसामेदश्च यावद्धि तमुपादाय वेगवान् । सृजत्यार्त्तवमार्गेण सर्पिर्मजवसोपमम् ॥ शश्वत् स्रवत्यथास्त्रावं तृष्णादाहज्वरान्वितम् । क्षीणरक्तां दुर्बलाश्च तामसाध्यां विवर्जयेत् ॥ ८५ ॥ मासानिष्पिच्छदाहार्ति पञ्चरात्रानुवन्धि च। नैवातिबहुलात्यल्पमार्त्तवं शुद्धमादिशेत् ॥ गुञ्जाफलसवर्णश्च यद वालक्तकसन्निभम् । इन्द्रगोपकसङ्काशमार्त्तवं शुद्धमादिशेत् ॥८६॥ वाताढ्यानाञ्च योनीनां यदुक्तमिह भेषजम् । चतुर्णा प्रदराणाञ्च तत् सव्वं कारयेद् भिषक् । रक्तातिसारिणां यच्च तथा लोहितपित्तिनाम् । रक्तार्शसाञ्च यत् प्रोक्तं भेषजं तच्च कारयेत् ॥८७॥
प्रदरचिकित्सा। स वेगवाननिलः यावद् वसा मेदश्च तावत् तमुपादाय सर्पिर्मजवसोपमम् आर्तवमागण रक्तक्षरणपथेन सृजति । अथास्त्रावं शश्वत् स्रवति तृषाधन्वितमिति सनिपातप्रदरलक्षणम् । तस्यासाध्यतामाह-क्षीणेत्यादि। क्षीणरक्तां क्षीणार्त्तयां दुबैलाश्च तां सन्निपातप्रदरवती नारीमसाध्यां विवर्जयेत् ॥ ८५॥
गङ्गाधरः-शुद्धात्तैवलक्षणमाह-मासादित्यादि। यदात्तवं मासात् प्रवर्त्तते निष्पिच्छदाहार्ति पिच्छदाहार्तिभ्यो निर्गतं पञ्चरात्रमनुबध्नाति प्रकाशरूपेणाल्पशः, नैवातिबहुलं नात्यल्पं तदातवं शुद्धमादिशेत्। लक्षणान्तरश्च गुञ्ज त्यादि। इन्द्रगोपकः कीटविशेषो रक्तवर्णः॥८६॥
गङ्गाधरः-अथ प्रदरभेषजमाह-वाताव्यानामित्यादि। योनिव्यापत्सु वातदृषितयोनीनां यदुक्तमिहाध्याये भेषजं तच्चतुर्णामेव प्रदराणां सर्च कारयेत्। रक्तातिसारिणामित्यादि। स्पष्टम्। इति प्रदरचिकित्सित. सुक्तम् ॥८७॥ चक्रपाणिः-प्रसङ्गालक्षणमाह- नारीत्यादि। पञ्चरावानुवन्धीति परातमनुबनातीति
For Private and Personal Use Only