________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AM
३४६४ चरक-संहिता। योनिब्यापचिकित्सितम्
क्षीरसर्पिवृष्ययोगा वस्तयश्चैव यापनाः। .. रसावनप्रयोगाश्च तयोर्भेषजमुच्यते। विस्तरेणैतदुदिष्टं क्लैव्यानां भेषजं परम् ॥७५ ॥
- क्लव्यचिकित्सा। यः पूर्वमुक्तः प्रदरः शृण हेत्वादिभिः पृथक् । यात्यर्थ सेवते नारी लवणाम्लगुरूणि च ॥ कटून्यथ विदाहीनि स्निग्धानि पिशितानि च। ग्राम्यौदकानि मेध्यानि कुशरां पायसं दपि ॥ शुक्तमत्स्यसुरादीनि भजन्त्याः कुपितोऽनिलः । रक्तं प्रमाणमुत्क्रम्य गर्भाशयगताः सिराः॥ रजोवहाः समाश्रित्य रक्तमादाय तद्रजः।
तस्माद् विवर्द्धयत्याशु रसभावाद् विमानता ॥ शोधर्म न तु रूक्षम् । क्षीरेत्यादि। क्षीरादुत्थितं सर्पिः क्षीरसपिनवनीतम्, यापना वस्तयो वक्ष्यन्ते सिद्धिषु । तयोरिति जरासम्भवक्ल व्यक्षयजक्लव्ययोः॥७५॥ .. गङ्गाधरः-इति क्लव्यचिकित्सितमुक्त्वा प्रदरप्रश्नोत्तरमाह-गः पूर्व मित्यादि। यात्यर्थ मित्यादि। या नारी लवणादीन्यत्यर्थ सेवले तानि भजन्त्यास्तस्या नााः कुपितोऽनिलः प्रमाणं स्वपरिमाणस्थं रक्तमार्तव मतक्रम्य उद्गत कुला गर्भाशयगता रजोवहाः सिराः समाश्रित्य तद्रज़ोरक्तः मादाय विवर्द्धयत्याशु तस्माद्रसभावाद विमानता भवति, स्वमानाद विवृद्धमानता वक्ष्यमाणा मुस्तादयः सिद्धौ वक्ष्यमाणाः। घस्तिद्वयेऽप्यन बहुवचनं व्यक्तिसभावापेक्षया हेयम् ॥७३-७५॥
चक्रपाणिः-यः पूर्वमुक्तः प्रदर इत्यादौ उपद्रवरूपतया पूर्ध्वमुक्तः प्रदर इति वदन्ति । किन्तु रहयोनिचिकित्सिते अस्गदरसंज्ञयैव रक्कयोनिसामान्याश्च निर्दिष्टदोषभेदेन - तत्रैव रकयोनिरसग्दररूपा व्याकृता, तेनेह पुनः असृग्दरलक्षणाभिधानं पूर्वटीकाकृतामपि समानम् । थे येत्यादिग्रन्थं पठन्ति ते तस्यैवायं प्रभेदः प्रपञ्चो वा क्रियत इति वर्णयन्ति । वयन्तु मूरिपुस्तकेषु
For Private and Personal Use Only