________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ते
३० अध्यायः ]
चिकित्सितस्थानम् 1
समासेनैतदुद्दिष्टं भेषजं कव्यशान्तये । विस्तरेण प्रवक्ष्यामि व्यानां भेषजं पुनः ॥ ७२ ॥ सुस्निग्ध स्विन्नगात्रस्य स्नेहयुक्तं विरेचनम् । अन्नाशनं ततः कुर्य्यादथवास्थापनं पुनः ॥ प्रदद्यान्मतिमान् वैद्यस्ततस्तमनुवासयेत् । पलाशैरण्डमुस्ताद्यः पश्चादास्थापयेत् ततः ॥ वाजीकरणायोगाश्च पूर्व ये समुदाहृताः । भिषजा ते प्रयोज्याः स्युः क्लैव्ये वीजोपघातजे ॥ ७३ ॥ ध्वजभङ्गकृतं क्लैव्यं ज्ञात्वा तस्याचरेत् क्रियाम् । प्रदेहान् परिषेकांश्च कुर्य्याद वा रक्तमोक्षणम् ॥ स्नेहपानञ्च कुर्वीत सस्नेहञ्च विरेचनम् । व्रणवच्च क्रियाः सर्वास्ततः कुर्य्याद् विचक्षणः ॥ ७४ ॥ जरासम्भवजे क्लैब्ये दक्षयजे चापि कारयेत् । स्नेहस्वेदोपपन्नस्य सस्नेहं शोधनं हितम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
३४६३
सुस्निग्धेत्यादि । स्नेहयुक्तं विरेचनं कुर्य्यादित्यन्वयः । ततोऽन्नाशनं कुर्य्यादथवास्थापनं दद्यात् ततस्तमनुवासयेत् । अनुवासनानन्तरं पुनः पलाशादिभिरास्थापयेत् । ततो वाजीकरणयोगा वाजीकरणोक्ताः ॥ ७२ ॥ ७३ ॥
गङ्गाधरः - वीजोपघातजक्लै व्यचिकित्सितमुक्तवा ध्वजभङ्गकृतस्य चिकित्सामाह - ध्वजेत्यादि । ध्वजभङ्गे मागे ध्वजविनाशात् क्लैब्यं शाखा तस्य क्रियामाचरेत् । ध्वजविनाशे त्वसाध्यत्वात् । प्रदेहादिकां क्रियां व्रणशोधनरोपणादिकाम् ॥ ७४ ॥
गङ्गाधरः - अथ जरासम्भवक्लै व्यचिकित्सामाह - जरेत्यादि । सस्नेह
For Private and Personal Use Only
हेतुविपयादिति दोषवैषम्यात् । देवव्यपाश्रयैश्चेत्या दिना अभिचारादिजक्लै व्यचिकित्सां ते । अभिचारादिजल क्लैश्यं देवव्यपाश्रयचिकित्साभिधानादेव स्वीकर्त्तव्यम् ॥ ६९-७२ ॥
चक्रपाणिः - पलाशैरण्डमुस्ताय रिति । तन एरण्डपलादि एरण्डमूलविफलादिग्रन्थे
४३८