________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६२
चरक-संहिता। योनिव्यापचिकिस्सितम् मातापित्रोर्वीजदोषादशुभैश्चाकृतात्मनः । गर्भस्थस्य यदा दोषाः प्राप्य रेतोवहाः सिराः। शोषयन्त्याशु तन्नाशाद रेतश्चाप्युपहन्यते॥. तत्र सम्पूर्णसर्वाङ्गः स भवत्यपुमान् पुमान् । एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्यात् ॥७॥ चिकित्सितमतश्चोर्द्ध समासव्यासतः शृणु ॥ शुक्रदोषेषु निर्दिष्टं भेषजं यन्मयानघ । क्लैव्योपशान्तये कुर्यात् क्षीणक्षयहितश्च यत् । वस्तयः क्षीरसर्पिश्च वृष्ययोगाश्च ये मताः। रसायनप्रयोगाश्च सर्वानेतान् प्रयोजयेत् । समीक्ष्य देहदोषाग्नि-बलं भेषजकालवित् ॥ ७१ ॥ व्यवायहेतुजं क्लैव्यं यच्च धातुविपर्ययात् ।
दैवव्यपाश्रयं तत्र भेषजं संप्रयोजयेत् ॥ क्लैव्यं स्यात्। कर्मजमाह-मातेत्यादि। मातापित्रोर्वीजदोषाद् अकृतसुकृतकात्मनोऽशुभैः पूर्वकर्मभिर्गर्भस्थस्य जीवस्य गर्भारम्भका दोषा यदा रेतोवहाः सिराः प्राप्य शोषयन्ति, तदा तसिरानाशाद्रतश्चाप्युपहन्यते । तत्र स चुमान् सर्वसम्पूर्णाङ्गः सन्नपुमान स्वहीन एव भवति। एते सर्वे क्लीवा असाध्याः सन्निपातसमुच्छयात् । इति क्लैव्यमुक्तम् ॥७॥
गङ्गाधरः-चिकित्सितमित्यादि। चिकित्सितमत ऊ मस्य शृणु। शुक्रदोषेत्यादि। पूर्व यच्छुक्रदोषेषु। क्षीणक्षतयोर्यद्धितम्। वृष्ययोगा वाजीकरणे॥७१॥
गङ्गाधरः- व्यवायेत्यादि । व्यवायहेतुजं क्षयजं क्लेव्यम्। भावयति वृषणोत्पाटनेनेत्यन्तेन। मातापिनोरित्यादिनोच्यते। स पुमान् स्त्रीपुरुषव्यापारकरणासमर्थत्वात् अपुमान् भवति । व्यवायहेतुजमितिपदं वीजदोषोत्पन्नसहजन्युदासार्थम् ।
For Private and Personal Use Only