________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० अध्यायः चिकित्सितस्थानम् । ३४६१
असात्म्यभोजनो यो हि हृदये यो व्यवस्थितः। रसः प्रधानधातुर्हि क्षीयेताशु ततो नृणाम् ॥ . रक्तादयश्च क्षीयन्ते क्षीयन्ते देहिनस्ततः। शुक्रावसानास्तेभ्योऽपि शुक्र धाम पर मतम् ॥ चेतसो वातिहर्षेण व्यवायं सेवतेऽति यः। तस्याशु क्षोयते शुक्र ततः प्राप्नोति संक्षयम् ॥ घोरं व्याधिमवाप्नोति मरणं वा समृच्छति । शुक्र तस्मादविशेषण रक्ष्यमारोग्यमिच्छता। एतन्निदानलिङ्गाभ्यामुक्तं क्लैव्यं चतुर्विधम् ॥ ६६ ॥ केचित् क्लैव्ये त्वसाध्ये द्वे ध्वजभगक्षयोद्भवे ।
वदन्ति शेफसश्छेदाद वृषणोत्पाटनेन च ॥ दुर्बलप्रकृतिः पुमान् यद्यनाहारो भवेत्, योऽसात्म्यभोजनः, तस्य तस्य यः प्रधानधातुह दये व्यवस्थितो रसः स क्षीयेत। ततो रक्तादयश्च शुक्रा. वसानाः शुक्रान्ताः षड़धातवः क्षीयन्ते ततो नरश्चाशु क्षीयेतेति। तेभ्यो रसादिभ्यः परं धाम शुक्रं मतम् । अनुलोमक्षयमुक्त्वा प्रतिलोमक्षयमाह-चेतसोवेत्यादि। अथवा चेतसोऽतिहषण व्यवायं योऽतिसेवते, तस्य शुक्रमाशु क्षीयते स पुमांस्ततः शुक्रक्षयात् संक्षयमाप्नोति, घोरं व्याधि मरणं वा समृच्छति। ततः क्षयज क्लैव्यं सुतरां भवतीति । तस्माद विशेषेण शुक्रमारोग्य मिच्छता रक्ष्यमिति । उपसंहरति एतदित्यादि । एतनिदानलिङ्गाभ्यां चतुविध क्लेव्यमुक्तं भवति ।। ६९ ॥
गङ्गाधरः केचिदित्यादि। केचिन्मुनयः क्लव्ये द्वे ध्वजभोद्भवं क्षयोदभवञ्चेति द्वे असाध्ये वदन्ति। मेढाभावानितरामसाध्यं ध्वजभङ्गकृतं क्लेव्य. मिति । प्रसङ्गादागन्तुक्लंव्यमाह। शेफसश्छेदात् क्लेयं स्याद् वृषणोत्पाटनात्
चक्रपाणिः-केचिदित्यादौ ध्वजभङ्गमयोद्धवे वक्ष्यमाणविशेषभङ्गक्षयोझवे। भेदमुद
For Private and Personal Use Only