________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
३४६०
अथ प्रवयसां शुक्र प्रायशः चोयते नृणाम् । रसादोनां संचयाच्च तथैवावृष्यसेवनात् ॥ बलवीय्ये न्द्रियाणाञ्च क्रमेणैव परिचयात् । परिचीणादायुषश्चाप्यनाहाराच्छ्रमात् क्रमात् ॥ जरासम्भवजं क्लैव्यमित्येतैर्हेतुभिर्नृणाम् । जायते तेन स चित्र' क्षीणधातुः सुदुर्बलः ॥ विवरण दुर्बलो दीनः स क्षिप्र ं व्याधिमृच्छति । एतज्जरासम्भवं हि चतुर्थं क्षयजं शृणु ॥ ६८ ॥ अतीव चिन्तनाच्चैव शोकात् क्रोधाद् भयात् तथा । ईप्यत कण्ठामदोद्र गान् सदा विशति यो नरः ॥ कुशो वा सेवते रूक्षमन्नपानं तथैौषधम् । दुर्व्वलप्रकृतिश्चैवाप्यनाहारो भवेदु यदि ||
[ योनिव्याप चिकित्सितम्
प्रवरमिति । तत्र जघन्ये बाल्ये षोड़शाब्दपर्यन्तमनुद्भूतशुक्रः पुमान् । मध्ये षष्टिवर्षपर्यन्तमुद्भूतशुक्रः । ततोऽनन्तरं यथा स्यात् तदाह । अथेत्यादि 1 मवयसां वार्ड क्यारम्भावधिक्रमेण शुक्रं नणां क्षीयते स्वयमेवावस्था स्वभावात् । प्रायशःपदेन वाजीकरणसेविनां व्यवच्छेदः । तदाह रसादीनां संक्षयादिति तदवस्थास्वभावात् । अवृष्यसेवनाच्च । क्रमेण बलादीनां परिक्षयात् । आयुषश्च परिक्षीणात् । कालस्वभावादाहाराल्पत्वादिखात् । श्रमात् । क्रमात् । जरासम्भवं क्लैव्यमेततुभिर्जायते इति । क्लैब्ये जाते स पुमान् तेन क्लैव्येन क्षीणधावा दि क्षिप्रं स्यात् । क्षिमश्च व्याधिमृच्छतीति जरासम्भवं क्लैव्यमुक्तम् । क्षयजं चतुर्थ क्लैव्यं शृणु ॥ ६८ ॥
गङ्गाधरः- अतीवेत्यादि अतीव चिन्तनादिभ्यो हेतुभ्यो यदा मानव foresण्ठादीन् विशति, अथवा कृशो नरो रूक्षानपानौषधं सेवते, अथवा
For Private and Personal Use Only
चक्रपाणिः - वृष्यादिसेविनां न क्षीयते शुक्रमिति दर्शयति । प्रवयसां शुक्रक्षये हेतुमाहरसादीनामित्यादि । एते च रसक्षयादयो हेतवः बाधकस्वभावादेव भवन्ति । जघन्येत्यादौ प्रायशः क्षीयते इति वचनात् प्रवयसामपि शुद्धसाराणाम् ॥ ६८ ॥