________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः ] . चिकित्सितस्थानम् ।
३४८६ श्वयथुर्जायते मन्दः स्तिमितोऽल्पपरिस्रवः। चिरादुपैति वा पाकं शीघ्र वाथ प्रमुच्यते ॥ जायन्ते क्रिमयश्चापि क्लियते पूतिगन्धि च। विशीर्यते मणिश्वास्य मेढ़मुष्कमथापि वा। ध्वजभङ्गकृतं क्लैव्यमित्येतत् समुदाहृतम् । एतं पञ्चविधं केचित् ध्वजभङ्ग प्रचक्षते ॥ ६७॥ क्लैव्यं जरासम्भवं हि प्रवक्ष्याम्यथ तच्छृणु।
जघन्यमध्यप्रवरं वयस्त्रिविधमुच्यते ॥ सावः स्यात् । कदाचिच्च शयथुर्मन्दः स्यात् स्तिमितश्वाल्पपरिस्रवश्च स्यात् । चिराद वाप्यचिराद वा पाकमुपैति अथ प्रमुच्यते चिकित्सयारोग्यमापद्यते। उपेक्षया तु क्रिमयो जायन्ते, क्लिद्यते च मेढ़ पूतिगन्धि च स्यादथास्य सो मेदस्य मणिरप्रदेशो यो विकशति स च विशीर्यते मेढ़ सर्वं विशीर्यते मुष्कं वा यदा विशीर्यते तदायं ध्वजभङ्गो यस्तत्कृतं क्लैव्यं सुतरां भवति मेदमणिसङ्गिमे दमुष्काभावादिति। एतमित्यादि। एतं ध्वजभङ्गमुपदंश केचित् पञ्चविधं प्रचक्षते। भिन्नाधिकारादिह नोक्तमेतेनानुमतमेव । तदुक्तं सुश्रुते। “स पञ्चविध स्त्रिभिदोषः पृथक समस्तैरसृजा चैकः। तत्र वातिके पारुष्यं सपरिपुटनं स्तब्धमेढ़ता परुषशोफता विविधाश्च वातवेदनाः। पैचिके ज्वरः श्वयथुः पकोडम्बरसङ्काशस्तीवदाहः क्षिप्रपाकः पित्तवेदनश्च । इलैष्मिके श्वयथुः कण्डूमान् कठिनः स्निग्धः श्लेष्मवेदनश्च । सर्वजे सबैलिङ्गदर्शनमवदरणं शेफसः क्रिमिप्रादुर्भावो मरणञ्च । रक्तजे कृष्णस्फोटमादुर्भावो. प्रत्यर्थमसमवृत्तिः पित्तलिङ्गान्यत्यर्थ ज्वरदाहौ शोषश्च याप्यश्चैव कदाचित्।” इति ॥६॥ २. गङ्गाधरः-ध्व नभङ्गकृतक्लव्यमुक्त्वा जराजक्लैव्यमाह-क्लेव्यमित्यादि । जरासम्भवं हि क्लैव्यं प्रवक्ष्यामि तत् शृणु। प्राणिनां वयस्त्रिविधं जघन्यमध्य .... चक्रपाणिः-तत्र श्वयथुर्वेदना मेढ़ इति वातेन, स्फोटाश्चेति पित्तेन, मांसादिवृद्धिरिति बफेन, ज्वरस्तृष्णेत्यादि रक्तेन, भग्निनेवेति सन्निपातेन । एतत् पञ्चविधं केचित् ध्वजभङ्गं वदन्ति । तथोक्तन वातपित्तकफरकसत्रिपातभेदेन पञ्चविधत्वमित्यर्थः ॥ १७ ॥
For Private and Personal Use Only