________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। योनिव्यापचिकित्सितम् श्वयथुर्वेदना मेढू-रागश्चैवोपजायते। स्कोटास्तोत्राश्च जायन्ते लिङ्गपाको भवत्यति ॥ मांसवृद्धिर्भवेच्चास्य व्रणाः क्षिप्रं भवन्त्यपि । पुलाकोदकसङ्काशः श्यावः श्यावारुणस्तथा ॥ वलयोकुरुते चापि कठिनश्च परिग्रहः । ज्वरस्तृष्णा भ्रमो मूर्छा छर्दिश्चाप्युपजायते॥ रक्तं कृष्णं स्रवेच्चापि नोलमाविललोहितम् । अग्निनेव च दग्धस्य तीब्रो दाहः प्रवर्तते ॥ वस्तौ वृषणयोर्वापि सेवन्यां वङ्क्षणेषु च ।
कदाचित् पिच्छिलो वापि पाण्डुः स्त्रावश्च जायते ॥ महारनिष्पेषणानाम्, शूकस्य जलशुकस्य शिश्नद्धिकामेनातिसेवनात् । रेतसः शुक्रस्य प्रवर्त्तमानस्य प्रतिघातात् ध्वजभङ्ग उपदंशो नाम रोगः प्रवर्तते। सुश्रुते हुापदंश एवायं नाना रोग उक्तः। तद्यथा"तत्रातिमैथुनाद ब्रह्मचर्याद वा तथा ब्रह्मचारिणी चिरोदसृष्टां रंजस्खला दीर्घरोमां कके शरोमां सङ्कीणेरोमां निगूढरोमामल्पद्वारां महाद्वारामप्रियामकामामचौक्षसलिलप्रक्षालितयोनिमक्षालितयोनि योनिरोगोपसृष्टां स्वभावतो वा दुष्टयोनि वियोनि वा नारीमत्यर्थमुपसेवमानस्य तथा करजदशनविषशूकनिपातनादर्द नाद हस्ताभिघाताचतुष्पदीगमनादचौक्षसलिलप्रक्षालनादव पीड़नात् शुक्रमूवेगविधारणान्मैथुनान्ते वाप्यप्रक्षालनादिभिदभागस्य प्रकुपिता दोषाः क्षतेऽक्षते वा श्वयथुमुपजनयन्ति तमुपदंशमित्याचक्षते" इति ॥६६॥ + : गङ्गाधरः-अथ ध्वजभङ्गप्रत्तौ यथा स्यात् तदाह-श्वयथुरित्यादि । वयथुः क्षतेऽक्षते वा मेढ़े श्वयथुर्वेदना मेदरागश्च जायते। तीव्राः स्फोटा लिङ्गपाका भवति। पुलाकोदकसङ्काशस्तुच्छधान्यजलवच्छयाववोऽथवा पावारुणवर्णः परिग्रहः स्फीतदेशः शिश्ने वलयीकुरुते कठिनश्च भवति । ज्वरादिश्वोपजायते। पकः शोफो रक्तादिवर्ण स्रावं सवेत् । अग्निना दम्पस्याजस्य यथा तीव्रो दाहस्तथा वस्त्यादिषु तीवो दाहः प्रवत्तेते। कदाचित् पिच्छिलः पाण्डश्च
For Private and Personal Use Only