________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३० अध्यायः
.
ता
चिकित्सितस्थानम् ।
३४८७ अल्पप्राणोऽल्पहर्षश्च प्रमदासु भवेन्नरः। हृत्पाण्डुकामलारोग-तमकश्रमपीड़ितः॥ छर्दप्रतीसारशूलातः कासज्वरनिपीडितः। वीजोपघातजं क्लैव्यं ध्वजभङ्गकृतं शृणु ॥६५॥ अत्यम्ललवणक्षार-विरुद्धासाम्यभोजनात् । अत्यम्बुपानाद विषमात् पिष्टान्नगुरुभोजनात् ॥ दधिक्षीरानूपमांस-सेवनाद व्याधिकर्षणात् । कन्यानां गमनाचापि अयोनिगमनादपि ॥ दोर्घरोन्नी छ चिरोत्सृष्टां तथैव च रजस्खलाम् । दुर्गन्धां दुष्टयोनिश्च तथैव च परिनु ताम् ॥ ईदृशीं प्रमदां मोहाद् यो गच्छेत् कामहर्षितः । चतुष्पदाभिगमनाच्छेफसश्चाभिघाततः ॥ अधावनाद वा मेढस्य शस्त्रदन्तनखक्षतात् । काष्ठप्रहारनिष्पेषात् शूकानाञ्चातिसेवनात् ।
रेतसश्च प्रतीघाताद ध्वजभङ्गः प्रवर्त्तते ॥६६॥ वर्णादिः पुरुषः स्यात्, प्रमदासु गमनेऽल्पप्राणोऽल्पहर्षः द्रोगादिपीडितः छायातः कासादिपीड़ितश्च भवतीति वीजोपघातजं क्लैव्यमुक्तम् । अथ ध्वजभाकृतं क्लैव्यं शृणु ॥६५॥
गङ्गाधरः-अत्यम्लेत्यादि। विषमात् । पिष्टान्नादिभोजनात । कन्यानामिति बालिकानां क्षुद्रयोनिमुखानाम् । अयोनिः पाय्वादिः। दीर्घाधोलोम्नीम् । चिरोत्सृष्टां बहुकालत्यक्तमैथुनां दुर्गन्धयोनिं दोषदुष्टयोनि परिस्र तयोनिम् । चतुष्पदः पशुः। शेफसोऽभिघातो हस्तादिभिः। अधावनादधौतात् । मेदस्य शस्त्रादिभिः क्षतात्। दन्तक्षतं काममत्ताभिरनुरागात् मेढ़े सम्भवति। काष्ठस्य वातादीनाच संक्षयादित्यन प्राकृतवातादिक्षयेणैव शुक्रानुत्पादो ज्ञेयः। शूकानाञ्चातिसेवनादिति अतिवृद्धार्थ कृतप्रयोगात् ॥६२-६६ ॥ •दीर्घरोगामिति पाठान्तरम्।
For Private and Personal Use Only