________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः ]
चिकित्सितस्थानम् ।
तस्मादसृग्दरं प्राहुरेतत् तन्त्रविशारदाः ॥ रजः प्रदीर्य्यते यस्मात् प्रदरस्तेन कथ्यते ॥ ७६ ॥ सामान्यतः समुद्दिष्टं कारणं लिङ्गमेव च ॥ चतुर्व्विधं व्यासतस्तु वातादेः सन्निपाततः । अतः परं प्रवच्यामि हेत्वाकृतिभिषग्जितम् ॥ ७७ ॥ रूवादिभिर्मारुतस्तु रक्तमादाय पूर्ववत् । कुपितः प्रदरं कुर्य्यात् लचणं तस्य मे शृणु ॥ ७८ ॥ तनु फेनिलरूचञ्च श्यावमारुणमेव च । किंशुकोदकसङ्काशं सरुजं वाथ नीरुजम् ॥ कटीवङ्क्षणहृत्पार्श्व - पृष्ठश्रोणिषु मारुतः । वेदनां कुरुते तीत्रामेतद् वातात्मकं विदुः ॥ ७६ ॥ अम्लोष्णलवणचारैः पित्तं प्रकुपितं यदा । पूर्ववत् प्रदरं कुर्य्यात् पैत्तिकं लिङ्गतः शृणु ॥ ८० ॥
For Private and Personal Use Only
३४६५
भवति । तस्मादेतदायुर्वेदतन्त्रविशारदा असृग्दरं प्राहुः । यस्माद्रजो रक्तं प्रदीर्य्यते तेन प्रदरच कथ्यते ॥ ७६ ॥
गङ्गाधरः– सामान्यत इत्यादि । व्यासतस्तु चतुर्व्विधं पृथग्वातादेः सनिपाततश्च । तेषां हेत्वादिकमतः परं प्रवक्ष्यामि । तद् यथा - रूक्षेत्यादि । आदिना वायोः प्रकोपणानि यानि ।। ७७ । ७८ ॥
गङ्गाधर - तन्वित्यादि । तन्वादिरूपमार्त्तवं मारुतः कुरुते । कटयादिषु तीव्र वेदनाश्च कुरुते ॥ ७९ ॥
गङ्गाधरः- अम्लोष्णेत्यादि । पूर्ववत् - रक्तं प्रमाणमुत्क्रम्येत्यादुक्तिरूपम् ॥ ८० ॥
पाठदर्शनादस्य व्याख्यानं कुर्मः । गर्भाशयगता इति गर्भाशयसम्बद्धाः । असृग्दुरशब्दव्युत्पत्तिमाह- कुपितोऽनिल इति । रक्तं प्रमाणमुत्क्रम्य इति रक्तं प्रमाणाधिकं कृत्वा रक्रमादाय जो यस्माद् विवर्द्धयति वृद्धेन रक्तेन योजयित्वा रजो विवर्द्धयति यस्मात् तस्माद 0 सृजो मेलबरूपत्वाद भयं व्याधिरसुन्दर इत्युच्यते । प्रदीर्य्यते इति विस्तार प्रति