________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४८४
चरक-संहिता। योनिच्यापश्चिकित्सिक स्त्रीणामत्यर्थगमनादभिघातात् क्षतादपि । शुक्र प्रवर्तते जन्तोः प्रायेण रुधिरान्वयम् ॥ वेगसन्धारणाच्छुक्र वायुना विहते पथि । कृच्छ्रण याति प्रथितमवसादि तथाष्टमम् ॥ इति दोषाः समाख्याताः शुक्रस्याष्टौ सलक्षणाः ॥ ५६ ॥ स्निग्धं घनं पिच्छिलञ्च मधुरञ्चाविदाहि च। रेतः शुद्धं विजानीयात् शुद्धस्फटिकसन्निभम् ॥ ६०॥ वाजीकरणयोगैस्तैरुपयोगैः सुखर्हितम् । रक्तपित्तहरैयोगैोनिव्यापदिकैस्तथा। दुष्टं भवेद् यदा शुक्र तदा तत् समुपाचरेत् ॥ ६१ ॥ घृतं यजोवनीयोक्तं च्यवनप्राश एव च । गिरिजस्य प्रयोगश्च रेतोदोषान् व्यपोहति ॥
वातान्विते हिताः शुक्र निरुहाः सानुवासनाः॥ स्त्रीणामित्यादिनाऽन्यधातूपसंसृष्टलक्षणम् । कृच्छणाल्पञ्च मारुतादिति यदुक्तं तदाह-वेगेत्यादि। विण्मूत्रशुक्रादिवेगसन्धारणात् कुपितेन वायुना शुक्रसरणपथे विहते सति शुक्र ग्रथितं भवत् कृच्छण निर्याति तदक्सादि शुक्रमष्टममित्यष्टौ शुक्रस्य दोषाः सलक्षणाः समाख्याताः॥५९ ॥
गङ्गाधर-शुद्धन्तु शुक्रमाह-शुद्धन्तु शुक्रं स्निग्धं घनमीषत् पिच्छिलमत्यर्थपिच्छिलस्य दोषतयोक्तेः, अपिच्छिलस्य शुष्कत्वेनोक्तेः। शुद्धस्फटिकसन्निभन्तु स्वाभाविकवर्णमिति ॥६॥ - गङ्गाधरः-एषां चिकित्सतमाह-वाजीत्यादि। यदा शुक्रमष्टषिध. दोषेण दुष्टं भवेत्, तदा तच्छुक्र वाजीकरणादिप्रयोगैरुपाचरेत् ॥ ६१॥ - गङ्गाधरः-घृतमित्यादि। जीवनीयनाम्नोक्तं घृतम्, मिरिजस्य शिलाजतुनः। वातान्वित इत्यादि। वातान्विते फेनिलतनुरूक्षावसादिशुक्रे
चक्रपाणिः-रुधिरान्वयमिति रुधिरयुक्तम् । शुक्राभिधानप्रसङ्गात् विशुद्धशुक्रवणमाह स्निग्धमित्यादि ॥५८-६१ ॥
For Private and Personal Use Only